पृष्ठम्:वैमानिकप्रकरणम्.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः

मालूरु बीजत्रय शंखपञ्चकं संयोज्य सर्व बकमूषमध्ये । मण्डूक कुण्डान्तर मध्यकेन्द्रे संस्थाप्य मूषां विधिवदृढं यथा ॥ पश्चात् धर्मत्पञ्चशतोष्णकक्ष्यप्रमाणत शास्त्रविधानतरसुधीः ॥ नेत्रान्तसंगालित तसं तत संगृह्य पश्चाद्विधिवच्छनैश्शनैः ॥ संपूरये द्विस्तृतदर्पणस्य यन्त्रोवनाळास्यमुखे सुवृत्ते ॥ एवं कृते शक्त्यपकर्षदर्पणो भवेत्सुसूक्ष्म स्सुदृढो मनोहरः ॥ ॥ अथ वैरूप्यदर्पणनिर्णयः ॥ एवमुक्त्वा यथाशास्त्र शक्त्याकर्षणदर्पणम् । वैरूप्यदर्पण मथ प्रवक्ष्येऽत्र यथामति ॥ खविमानं निरोडं ये परवानात्समागताः । शत्रवः क्रोधसंविष्टा नानोपायविशारदाः ॥ भयमूछादिभिस्तेषां यः प्रयच्छति विस्मृतिम् । तद्वैराजिकदर्पण इति संकीर्यते बुधैः ॥ सप्तविंशद्विकाराश्च शास्त्रोक्तास्तु यथाक्रमम् । तत्स्वरूपप्रबोधार्थं संग्रहेण निरूप्यते ॥ । ॥ तदुक्तं संमोहनक्रियाकाण्डे ॥ अग्निवाताम्ब्वशनि विद्युधूम सागरपर्वताः। सर्प वृश्चिक भल्लूक सिंह व्याघ्रादयस्तथा ॥ भूतप्रेत पिशाचाश्च पक्षिणोऽतिभयंकराः । इति सप्तदशोक्तास्तु विकाराश्च यथाक्रमम् ॥ एवमुक्त्वा दर्पणस्य गुणनामादिकं क्रमात् । इदानीं तत्पाकविधि संग्रहेण निरूप्यते ॥ | ॥ तदुक्तं दर्पणप्रकरणे ॥ शल्यक्षारं पञ्चक्ष्विङ्कात्रयं च लाक्षात्रयं सोमकमष्टभागम् । शशत्रयं राजकुरण्टिकाइयं इङ्गालसाराष्टक टङ्कणत्रयम् ॥ ४५० ॥ नखाष्टकं वालुकसप्तकं च मातृण्णषट्कं रविचुम्बकद्वयम् । पूरत्रयं पारदपञ्चविंशकं तालत्रयं रौप्यचतुष्टयं च ॥ क्रव्यादषट्कं गरदाष्टकं च पिष्टत्रयं कन्दचतुष्टयं च । वाराह पित्थत्रयसारपञ्चकं गुञ्जातैलं पञ्चविंशत्कमेण ॥ संगृह्येतान्सप्तसंस्कारशुद्धा संपूरयेन्मूषक मूषिकायाम् ॥ मूषास्यकुण्डे ऽष्टशतोष्णकक्ष्या त्संगालये नेत्रनिमीलनान्तम् ॥