पृष्ठम्:वैमानिकप्रकरणम्.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


महर्षि भरद्वाज प्रणीते श्री यन्त्रसर्वस्वे


वै मा नि क प्र क र ण म्

प्रथमोऽध्यायः

॥ मङ्गळाचरणम् ॥

यद्विमानगतास्सर्वे यान्ति ब्रह्मपरं पदम् । तं नत्वा परमानन्दं श्रुतिमस्तकगोचरम् ॥
पूर्वाचार्यकृतान् शास्त्रानवलोक्य यथामति । सर्वलोकोपकाराय सर्वानर्थविनाशकम् ॥
त्रयीहृदयसन्दोहसाररूपं सुखप्रदम् । सूत्रैः पञ्चशतैर्युक्तं शताधिकरणैस्तथा ॥
अष्टाध्याय समायुक्त मतिगूढं मनोहरम् । जगतामतिसन्धान कारणं शुभदं नृणाम् ॥
अनायासाद्योमयान स्वरूपज्ञानसाधकम् । वैमानिकाधिकरणं कथ्यतेऽस्मिन्यथाविधि ॥५॥

॥ व्याख्यानश्लोकाः ॥


महादेवं महादेवीं वाणीं गणपतिं गुरुम् । शास्त्रकारं भरद्वाजं प्रणिपत्य यथामति ॥
स्वतस्सिद्ध न्यायशास्त्रं वाल्मीकिगणितं तथा । परिभाषाचन्द्रिकां च पश्चान्नामार्थकल्पकम् ॥
पञ्चवारं विचार्याथ तत्प्रमाणानुसारतः । बालानां सुखबोधाय बोधानन्दयतीश्वरः ॥
सङ्ग्रहाद्वैमानिकाधिकरणस्य यथाविधि । लिलेख बोधानन्दवृत्त्याख्यां व्याख्यां मनोहराम् ॥
व्याख्यालक्षणरीत्यास्य पाणिनीयादिमानतः । पारिभाषिकरूपत्वा व्याख्यातुं नैव शक्यते ॥१०॥
प्रारीप्सितस्य ग्रन्थस्य निर्विघ्नेन यथाक्रमम् । परिसमाप्तिप्रचयगमनाभ्यां यथाविधि ॥
शिष्टाचार परिप्राप्त मङ्गळाचरणं स्वतः । अनुष्ठाय यथाशास्त्र शिष्यशिक्षार्थमादरात् ॥
यद्विमानगतास्सर्वेत्युक्तश्लोकाद्यथाक्रमम् । स्वेष्टदेवनमस्कार रूपं मङ्गळमातनोत् ॥