पृष्ठम्:वैमानिकप्रकरणम्.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

प्रथमोऽध्यायः ३५ १०. ऊष्म पा धिकरणम् अथ ऊष्मपोत्पत्तिनिर्णयः सूत्रम्. १. ऊष्मपास्त्रिलोहमयाः बोधानन्दवृत्तिः - ऊष्मपा इति ये प्रोक्ताः पूर्वं यानक्रियाविधौ । तेषां स्वरूपं निर्णोतुमिदंसूत्रप्रकीर्तितम् ॥ पदद्वयं भवेदस्मिन्नूष्मलोह प्रबोधकम् । तत्रादिमपदा द्यानलोहा संसूचिताः क्रमात् ॥ द्वितीयपदतस्तेषां स्वरूपाद्या स्तथैव हि । ऊष्मणामुष्णमित्याहु रादित्य किरणोद्भवम् ॥ ये पिबन्ति स्वभावेन ते प्रोक्ता ऊष्मपा इति। सौमसौण्डालमौत्वका स्त्रिलोहेत्यत्र वर्णिताः ॥ तेषां लोहत्रयाणां तु समाहारोऽत्र वर्णितः। तल्लोहयोगजन्यत्वाद्विकारार्थे मयट्मृतः ॥ यस्मात्रिलोहवर्गीयलोहसंयोगतः क्रमात् । प्रभवन्त्यूष्मपा स्तस्मात्तन्मया इति कीर्तिताः ॥ पदार्थमेवं कथितं विशेषार्थोऽधुनोच्यते । सौमसौण्डालमौत्वकवर्गजा शास्त्रतः क्रमात् ॥ ॥ उक्तं हि लोहरत्नाकरे ॥ ऊष्मपाणां बीजलोहा स्त्रयस्त्रिशदितीरिताः। सौमसौण्डालमौवकवर्गभेदाद्यथाक्रमम् ॥इति॥ एकैकवर्गसंवलुप्तलोहा एकादश क्रमात् । तेषां नामानि नामार्थकल्पोक्तानि यथाक्रमम् ॥ संगृह्यात्र प्रवक्ष्यामि संग्रहेण यथामति । सौमरसौम्यकप्सुन्दास्य सोमपञ्चाननोष्मपः ॥ शक्तिगर्भो जाङ्गलिकः प्राणनश्शंखलाघवः । इत्येकादश नामानि शक्तिसाङ्केतवर्णकैः ॥ सौमवर्गीयलोहानां प्रोक्तान्यत्र यथाक्रमम्। विरिञ्चि रसौम्यप शंकुरुब्णसूरण शिञ्जिकाः ।। कङ्करञ्जिक सौण्डीरमुग्ध धुण्डारकस्तस्था । इत्येकादश नामानि शास्त्रोक्तान्यत्र पूर्ववत् ॥ सौण्डीरवर्गलोहानां संप्रोक्तानि यथाक्रमम् । अणुको घणुकः कङ्कस्त्र्यणुकोविशदाम्बरः ॥ मृदम्बरो वालगर्भः कुवर्चःकण्ठकास्तथा । क्ष्विङ्कलविक इत्येकादश नामानि पूर्ववत् ॥ मौर्तिवकवर्गा लोहानामुक्तान्यत्र यथाक्रमम् । त्रयस्त्रिंशद्दीजलोहा एवं वर्गवयंस्मृतम् ॥ पूर्वोक्तलोहत्रयशक्तय एव स्वभावतः । तन्मयत्वा तुयस्त्रिंशहीजलोहेष्वपीरिताः ॥३३४॥ एवमुक्त्वा बीजलोस्वरूपं शास्त्रतस्फुटम् । अथ तेषां गालनार्थी मेळनक्रममुच्यते ॥