पृष्ठम्:वैमानिकप्रकरणम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणम्

वैमानिकप्रकरणे तत्संगृह्याथ विधिवत्क्षाळयित्वा ततः परम् । पञ्चतैलै श्रतुवैः कषायै सप्तभि स्तथा ॥ पृथक्पृथ ग्गालयित्वा लोहं पश्चात्समाहरेत् ॥ ३०५ ॥

॥ तदुक्तं संस्कारर्पणे ॥

गुञ्जा कञ्जल चञ्चु कुञ्जर करञादि तैलेस्तथा। प्राणक्षार विरच्चि कञ्चुकि खुग्द्रावैश्च शुदैः क्रमात ॥ हिगू पर्पटि घोण्टिका वरजटामांसी विदाराङ्गिणी | मत्स्याक्षी वररक्तकण्ट कुवरी काषायतश्शोधयेत् ॥ एवमुक्त्वा सौमलोहशुद्धिक्रममतःपरम् । सौण्डालिकाख्यलोहस्य शोधनाक्रममुच्यते ॥ पाचनादिक्रियास्सर्वे नाळयन्त्रान्तमादत् । सौडालस्य यथाशास्त्र कर्तव्यं सौमलोहवत् ॥ द्रवकाषायतैलादिसंस्कारो भिद्यते क्रमात् । षड्द्रावै सप्ततैलैच्च कषायैः पञ्चभिस्तथा । प्रत्येक गालयेत्तैस्तैः पश्चाल्लोहं समाहरेत् ॥ ३२० ॥ ॥ उक्तं हि संस्कारदर्पणे ॥ इङ्गालगौरी सुवराटिका स्तथा मृद्वीरताप्योल्बणशुद्धतैलैः ।। तथैव चाङ्गोल सुमुष्टि शंखभल्लात काकोल विरञ्जक द्रवैस्तथा ॥ कुळुत्थ निष्पावक सर्षपाढकी गोधूम काषायक काञ्जिकैश्च ।। संशोधये सौण्डालिकलोहदोष शास्त्रोक्तमार्गेण शनैश्शनैः क्रमात् ॥ इति ॥ उक्त्वा सौण्डालसंशुद्धि मेवं शास्त्रानुसारतः । अथेदानीं मौविकाख्यलोहशुद्धिक्रम उच्यते॥ तैलद्रावककाषायत्रयै स्सम्यक्सुशोधयेत् । सौण्डालवत्पाचनादिक्रियाश्चास्यापि वर्णिताः ॥ ॥ तदुक्तं संस्कारदपणे ॥ शिवारितेला कुडुपस्यद्रावका द्विषम्भरीचर्मकषायत स्तथा। संशोधये न्मौविकलोहर्ज मलं शास्त्रोक्तमार्गक्रमतो विशेषतः ॥ इत्यादि। | एवं संशोध्य मौवकलोहं पश्चात्समाहरेत् ॥ संस्कार बी जलोहानामेवमुक्त्वा यथाविधि। अथेदानीमूष्मपानामुत्पत्तिक्रममुच्यते ॥ ३१७ ॥