प्रथमोऽध्यायः
पञ्चविंशतिसङ्ख्याका ऋतुजा विषशक्तयः । पूर्वोक्ताहारभेदेन विनाशं यान्ति नान्यथा ॥
ऋतवः षड्विधा स्तेषां कालशक्तश्चादयः क्रमात् । बहुधा सम्प्रभिद्यन्ते रयवारुण चापलात् ॥ मरुच्चापल शक्त्यंश शतैकं तद्वदेव हि । वारुणायाष्षोडशैक भागांशस्सप्तमेन्तरे ॥ सम्मेळनं यदि भवेत्तदाऽनन्त प्रकारतः । सिनीवाली कुहूर्योगा द्विषामृत प्रभेदतः ॥ प्रभिद्यन्ते विशेषेण ऋतूनां कालशक्तयः। यासिनीवाली संग्रसिता स्तारसर्वाऽमृतशक्तयः ॥ कुहू संग्रसितास्युः तास्सर्वा विषशक्तयः । सप्तकोट्यष्ट पंचाशल्लक्ष सप्तशत स्मृताः ॥ तावन्त्येव विषा:प्रोक्ता: वाल्मीकिगणितोदिताः। छेदिन्याद्यास्तेषु पंचविंशस्युर्विषशक्तयः ॥ ऋतुकालानुसारेण यन्तृदेहविनाशकाः । तन्नाशश्चाहारभेदादिति शातातपोऽब्रवीत् ॥ इति ॥ तस्मादाहारभेदोऽस्मिन्सूत्रे त्रेधा निरूपितः । तत्सेवनात्कायपुष्टि र्यन्तृणां प्रभवेद्भवम् ॥
३. तत्कालानुसारादिति ॥
- बोधानन्दवृत्तिः -
पदत्रयं तु सूत्रेऽस्मिन् भुक्तिकालविनिर्णये । उक्तं स्यात्संग्रहेणाद्य तदर्थस्सन्निरूप्यते ॥ पूर्वोक्तास्त्रिविधाहारास्तच्छब्देनात्र वर्णिताः । भुक्तिकालविधिस्सम्य द्वितीयपदतः स्मृतः ॥ इत्थंभावेति शब्दरस्यादितिशब्दार्थनिर्णयः । एतेन पूर्वोक्ताहार ग्रहणे कालनिर्णयः ॥ अहोरात्रप्रभेदेन यन्तृणां पञ्चधा स्मृतम् ॥
अथ भोजनकालविधि व्याख्यास्यामः । कालाऽकालविभागेन गृहिणांडावेक- मित्येकंमस्करिणां चतुर्धेतरेषां पञ्चधायानयन्तृणां यथेच्छंयोगिनामिति ॥
कालयोभजनमिति सूत्रवाक्यानुसारतः । अहि द्वितीययामान्ये रात्रौ प्राथमिक अन्तरे ॥ सकालभोजने प्राहुगृहिणां कालनिर्णयः । अकालभोजने तेषामेकभुक्तिविधौ क्रमात् ॥