पृष्ठम्:वैमानिकप्रकरणम्.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैमानिकप्रकरणे

५. अङ्गाधिकरणम्

॥ अथ विमानाङ्गनिर्णयः ॥

सू. १. अङ्गान्येकत्रिंशत्

बोधानन्दवृत्तिः -

शास्त्र सर्वविमानानां अङ्गाङ्गोभावतस्फुटम् । उक्तं यानविदां श्रेष्ठै विमानाकारनिर्णये ॥
यथा सर्वाङ्गसंयुक्तो देहस्सर्वार्थसाधने । समर्थस्याद्विमानश्च सर्वाङ्गैस्संयुतस्तथा ॥
विश्व क्रियादर्पणस्थानमारभ्य यथाविधि । एकत्रिंशद्विमानाङ्गस्थानान्युक्तानि भूरिशः ॥
तानि सर्वाणि विधिवत्संग्रहेण यथाकमम् । छायापुरुषशास्त्रोक्तप्रकारेणात्र वर्यते ॥
आदौ विश्वक्रियादर्श स्थानमित्यभिधीयते । शक्त्याकर्षणदर्पणस्थानमुक्त मतःपरम् ॥
परिवेषस्थानमुक्तं विमानावरणोपरि । अङ्गोपसंहारयंत्रसप्तमे बिंदुकीलके ॥ १४० ॥
स्याहिस्तृतक्रियास्थान रेवैकादशमध्यमे । वैरूप्यदर्पणस्थानं पद्मचक्रमुखं तथा ॥
शिरोभागे विजानीयाद्विमानस्य बुधैः क्रमात् । कण्ठे तु कुण्टिनीशक्तिस्थानमित्युच्यते बुधैः ॥
पुष्पिणी पिञ्जुळादर्शस्थाने दक्षिणकेन्द्रके। वामपार्श्वमुखे नाळपञ्चकस्थानमुच्यते ॥
गुहागभदर्शयन्त्रस्थान कुक्षिसुखे क्रमात् । तमोयंत्रस्य संस्थानं भवेडायव्यकेन्द्रके ॥
पञ्चत्रातस्कन्धनाळस्थानं पश्चिमकेन्द्रके। रौद्रोदर्पणसंस्थानं वातस्कंधायकीलकम् ॥
अध:केन्द्रे विजानीयाद्विमानस्य यथाक्रमम् । शक्तिस्थान विमानस्य मुखदक्षिणकेन्द्रयोः ॥
शब्यकेन्द्रमुखस्थानं वामभागे निरूपितम् । विद्युद्वादशकस्थान विमानैशान्यकोणके ॥
प्राणकुण्डलिसंस्थान यानसूले निरूपितम् । भवेच्छक्त्युद्गमस्थानं नाभिकेन्द्र तथैव च ॥
वक्रप्रसारणस्थानं विमानाधारपार्श्वके । मध्यकेन्द्र भवेच्छक्तिपञ्जरस्थानकीलकम् ॥
स्थ न शिर:कोलकाख्यं भवेद्यानशिरोपरि। शब्दाकर्षणयन्त्रस्य स्थानं यानभुजे क्रमात् ॥
पटप्रसारणस्थानं यानाऽधोभागमध्यमे । दिशांपतियन्त्रस्थानं वामकेंद्रभुजे विंदुः ॥
पट्टिकाभ्रकसंस्थानं यानावरणमध्यमे । विमानोपरि सूर्यस्य शक्तयाकर्षणपञ्जरम् ॥
अफ्स्मारधूमस्थानं सन्धिनाळमुखोत्तरे। अधोभागे स्तम्भनाख्ययन्त्रस्थानमितीर्यते ॥
वैश्वानराख्यनाळस्य स्थानं नाभिमुखे विदुः । इत्येकत्रिंशतिकस्थाननिर्णयः परिकीर्तितः ॥