पृष्ठम्:वैमानिकप्रकरणम्.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः

॥ तदुक्तं शौनकीये ॥
प्रवाहद्वयसंसर्गादावर्तन मिति तान्यनुक्रमिष्यामः । रेखा पथे शक्त्यावर्तनं मण्डले

वातावर्तनं कक्ष्ये किरणावर्तनं शक्तिपथे शैत्यावर्तनं केन्द्र घर्षणावर्तनमित्यावर्ताः पञ्चधा भवन्तीति । आवर्ताः पञ्चसु पञ्चेति हि ब्राह्मणम् । एवं रेखादिमार्गेषु शक्तिद्वयसमाकुलात् । आवर्ताः संप्रजायन्ते खेटयानविनाशकाः ॥ उक्तं हि मार्गनिबन्धने ॥ लहयोवहयोश्चैव यहयोरहयोस्तथा । महयोरन्तराळेषु शक्त्यावर्ता इतीरिताः ॥ ११८ ॥

॥ लल्लकारिका ॥

लकारेणात्र भूः प्रोक्ता हकारादम्बरं स्मृतम् । प्रोक्तास्तयोरन्तराळे रेखामार्गास्त्वनेकशः ॥ शक्त्यावर्तास्तेष्वनन्तारसम्भवन्त्यतिवेगतः । तैर्भूलोकविमानानां विनाश इति निश्चितः ॥ अम्बरे वर्णिते स्याहहकारात्मना क्रमात् । तयोर्मध्ये मण्डलाख्यमार्गाः प्रोक्ता विशेषतः ॥ वातावतस्तेष्वनन्तासम्भवन्त्यतिवेगतः । लोकत्रयविमानानां विनाशस्तेषु निर्णितः ॥ तथैव यहवर्णाभ्यां वाय्वाकाशे निरूपिते । तयोर्मध्ये कक्ष्यमार्गास्त्वनेकारसंप्रकीर्तिताः ॥ भवंति किरणावतस्तेष्बंशूनां प्रवाहतः । जनोलोकविमानानां विनाशस्तत्र वर्णितः ॥ रवर्णेन रविः प्रोक्तो हवर्णादम्बरं स्मृतम् । तयोर्मध्ये शक्तिमाग बहुधा संप्रकीर्तिताः ॥ शैयाबतस्तेषु शक्तिसंसर्गादतिवेगतः । संभवन्ति विशेषेण खेटयानविनाशकाः ॥ महामार्ताण्डशक्तिस्थप्रवाहांशो मकारतः । हकारेणाम्बरं चैव वर्णितं स्याद्यथाक्रमम् ॥ तयोर्मध्ये केन्द्रमार्गाः बहुधा संप्रकीर्तिताः । भवन्ति घर्षणावतस्तेषु नानामुखा:क्रमात् ॥ ब्रह्मलोकविमानानां विनाशस्तैर्निरूपितः । शैत्योष्णशक्तिन्यूनातिरिक्ताभ्यां मार्गसन्धिषु ॥ प्रबाहद्वयसंयोगवेगादावर्तनं क्रमादिति । एवं रेखादिमार्गेषु आवर्तास्सन्निरूपिताः ॥ तैर्विनाशो विमानानां इति शास्त्रविनिर्णयः । पूर्वोक्तद्वात्रिंशद्रहस्यज्ञानवक्रमात् ॥ मागबिर्तस्वरूपे च सूत्राभ्यां सन्निरूपिते । एतेनोभयविज्ञानाधिकारनिरूपणम् ॥ सूत्रद्वयेन विधिवडणितं यानकर्मणि | आवर्ताश्शक्तिवातांशुशैत्यघर्षणसंज्ञकाः ॥ उक्तावर्तेषु विधिवद्विज्ञातव्या विशेषतः । पञ्चाव एव यानमार्गसंरोधका यतः ॥इत्यादि॥