पृष्ठम्:वैमानिकप्रकरणम्.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वैमानिकप्रकरणे
॥ तदुक्तं शौनकीये ॥
अथाकाशमार्गाण्यनुक्रमिष्यामो रेखा मण्डल कक्ष्य शक्ति केन्द्रभेदात् भूतशक्तिप्रवाहमार्गाण्याकूर्मादावारुणान्तं बाणमवष्टभ्य, एकपञ्चाशत्कोट्येकपञ्चाशल्लक्षनवसहस्राष्टशतसङ्ख्याकानि भवन्ति । तेषु भूरादिसप्तकोटिविमानास्सञ्चरन्तीति ॥

एतेषु सूत्रोक्त पञ्चमार्गभेदा यथाक्रमम् । यथोक्तं धुण्डिनाथेन तथैव हि निरूप्यते ॥
रेखामार्गासप्तकोटित्रिलक्षाष्टशताः स्मृताः । द्वात्रिंशत्कोट्यष्टलक्षद्विशतं मण्डले क्रमात् ॥
द्विकोटिनवलक्षत्रिशतं कक्ष्ये निरूपिताः । दशकोट्येकलक्षत्रिशतं शक्तिपथेरितः ॥
त्रिंशल्लक्षाष्टसाहस्रद्विशतं केन्द्रमण्डले । एवं रेखादिकेन्द्रान्तमण्डलेषु यथाक्रमम् ॥
वाल्मीकिगणितान्मार्गसङ्ख्याश्लोकैर्निरूपिता । एतेषु यानसञ्चार मार्ग निर्णय मुच्यते ॥
प्रथमाद्या चतुर्थान्तं रेखामार्गा यथाक्रमम् । भूलोक यानसञ्चारयोग्या इति विनिश्चिताः ॥
तृतीयाद्या पञ्चमान्तं मण्डलाख्यपथि क्रमात् । भुवर्लोकसुवर्लोकमहोलोकनिवासिनाम् ॥

विमानसञ्चारमार्गा इति शास्त्रेषु वर्णिताः ॥ ११० ॥

जनोलोकविमानानां गमने मार्गनिर्णयः । द्वितीयाद्या पञ्चमान्त उक्तं कक्ष्यपथि क्रमात् ॥
प्रथमाद्या षडन्तास्स्युः मार्गाश्शक्तिपथि क्रमात् । तपोलोकविमानानामिति शास्त्रविनिर्णयः॥
तृतीयाद्येकादशान्तं ब्रह्मलोकनिवासिनाम् । विमानसञ्चारमार्गाः प्रोक्ताःकेन्द्रपथि क्रमात् ॥
वाल्मीकिगणितेनैव गणितागमपारगैः । विमानानां यथाशास्त्र कृतो मार्गविनिर्णयः ॥



४.आवर्ताधिकरणम्

॥ अथ आवर्त निर्णयः ॥

सू. १. आवर्ताश्च.

एवमुक्त्वा विमानानां पञ्च मार्गाण्थाक्रमम् । अथेदानीं तदावर्तनिर्णयरसन्निरूप्यते ॥
आवर्ता बहुधा प्रोक्ता मार्गसङ्ख्यानुसारतः। तेषु यानपथावर्ताः पञ्चैवेति विनिर्णिताः ॥