पृष्ठम्:वैमानिकप्रकरणम्.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽध्यायः

लितशक्तिं धूमाकारं कृत्वा विमानावरणोपरिस्थित किरणप्रभामुखसन्धौ अन्तर्धाय, पूर्वोक्त अधूमाकारद्रावकेण विमानावरणलेपनं कृत्वा तदुपरि धूमप्रसारणद्वारा जलदाकारवत् विमानप्रदर्शन रहस्यम् ॥

३१. स्तम्भकरहस्यो नाम ॥
विमानोत्तरपार्श्वस्थ सन्धिमुखनाळादपस्मारधूमं सङ्ग्राह्य स्तम्भनयन्त्रद्वारा तद्धूमप्रसारणात् परविमानस्थ सर्वजनानां स्तब्धीकरण रहस्यम् ॥
३२. कर्षणरहस्यो नाम ॥
खविमानसंहारार्थं परयानपरम्परागमने विमाननाभीमुखस्थ वैश्वानरनाळान्तर्गत ज्वालिनीशक्तिप्रज्वलनं कृत्वा सप्ताशीति लिङ्कप्रमाणोष्णं यथा भवेत्तथा चक्रद्वयकीलीचालनात् शत्रुविमानोपरि वर्तुळाकारेण तच्छक्तिप्रसारणद्वारा शत्रुविमाननाशनक्रियारहस्यम् ॥ ९७ ॥
इति सिद्धनाथोक्त रहस्यार्थविवेचनं निरूपितमभूत् ॥




३. मार्गाधिकाराधिकरणम्

सू. १. पञ्चज्ञश्च.

बोधानन्दवृत्तिः -

यथा रहस्यविज्ञानं पूर्वसूत्रे निरूपितम् । पञ्चमार्गस्वरूपं च तथैवास्मिन्निरूप्यते ॥ एतेनोभयविज्ञानादेव यन्तृत्वतामियात् । इति सूत्रद्वयविचारा सिद्धं भवति हि ध्रुवम् ॥ पञ्चमार्गविचारस्तु शौनकोक्तप्रकारतः । रेखादिकेन्द्रमार्गान्तं क्रमादत्र प्रकीर्त्यते ॥ १०० ॥ रेखापथोमण्डलश्च कक्ष्यो शक्तिस्तथैव च । केन्द्रश्चेति विमानानां मार्गाः खे पञ्चधा स्मृताः ॥