पृष्ठम्:वैमानिकप्रकरणम्.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वैमानिकप्रकरणे
२५. परशब्दग्राहकरहस्यो नाम ॥
सौदामिनीकलोक्तप्रकारेण विमानस्थ शब्दग्राहकयन्त्रद्वारा आकाशप्रथममण्डलपरिधिमारभ्य सप्तममण्डलपर्यन्तं परविमानस्थ जनसम्भाषणादिसर्वशब्दाकर्षणरहस्यम् ॥
२६. रूपाकर्षणरहस्यो नाम ॥
विमानस्थ रूपाकर्षणयन्त्रद्वारा परविमानस्थित वस्तुरूपाकर्षण रहस्यम् ॥
२७. क्रियाग्रहणरहस्यो नाम ॥
विमानाधःकीलीचालनात् शुद्धपटप्रसारणं भवति । ईशान्यकोणस्थद्रावकत्रये शक्तिसंयोजनं कृत्वा तच्छतिं सप्तमवर्गसूर्यकिरणेषु सन्धार्य तत्किरणान् त्रिशीर्षदर्पणनाळदण्डेऽन्तर्धाय पूर्वोक्तशुद्धपटं दर्पणाभिमुखीकरणं कृत्वा तन्मुखात्पूर्वोक्तशक्तिप्रसारणपूर्वकार्धकीलीचालनद्वारा विमानाधोभागस्थित पृथिव्यन्तरिक्षेषु यद्यत्क्रियारहस्याणि अन्यैः क्रियन्ते तत्स्वरूपप्रतिबिम्बः शुद्धपटे मूर्तवच्चित्रितो भवति । तद्द्वारा क्रियाग्रहणरहस्यम् ॥
२८. दिक्प्रदर्शनरहस्यो नाम ॥
विमानमुखकेन्द्रकीलीचालनेन दिशाम्पतियन्त्रनाळपत्रद्वारा परयानागमनदिक्प्रदर्शनरहस्यम् ॥
२९. आकाशरहस्यो नाम ॥
आकाशतन्त्रोक्तरीत्या कृष्णाभ्रवारिणा पिचुकन्दमूलभूनागद्रावकाभ्यां यानावरणाभ्रकपट्टिकामालिप्य तस्मिन् वायुपथकिरणशक्तिसंयोजनद्वारा विमानमाकाशाकारवत्प्रदर्शनरहस्यम् ॥
३०. जलदरूपरहस्यो नाम ॥
करकाम्ल बिल्वतैल शुल्बलवण धूमसार ग्रन्थिकरस सर्षपपिष्ट मीनावरणद्रवाणां शास्त्रोक्तप्रकारेण भागांशसम्मेलनं कृत्वा, मुक्ताफलशुक्तिकालवणसारे संयोज्य सम्मि-