पृष्ठम्:वैमानिकप्रकरणम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽध्यायः
२०. महाशब्दविमोहनरहस्यो नाम ॥
विमानस्थसप्तनाळवायुमेकीकृत्य शब्दकेन्द्रमुखे अन्तर्धाय पश्चात् तत्कीलीं प्रचालयेत् । तद्वेगात् शब्दप्रकाशकोक्तरीत्या द्विषष्टिमानकलासङ्घट्टनशब्दवत् महान् शब्दो जायते । तच्छब्दस्मरणात् सर्वेषां हृदयकम्पनं भवति । किष्कुत्रयप्रमाणकम्पनं यदा भवति तदा स्मृतिविस्मरणं भवति । तद्वारा परेषां विमोहनक्रियारहस्यम् ॥
२१. लङ्घनरहयो नाम ॥
वायुतत्वप्रकरणोक्तप्रकारेण वातमण्डलपरिधिरेखासु विमानसञ्चारकाले यदा सूर्यगोळबाडबामुखकिरणज्वालाप्रवाहः विमानाभिमुखो भवति तेन विमानः प्रज्वलितो भवति । अतस्तन्निवारणार्थं विमानस्थविद्युद्वातशक्तिमेकीकृत्य, विमानस्थप्राणकुण्डलीस्थाने सन्धाय पश्चात् कोलीचालनेन विमानोड्डीयनद्वारा कुल्यालङ्घनवत् रेखाद्रेखान्तरलङ्घनकियारहस्यम् ॥
२२. सर्पगमनरहस्यो नाम ॥
दण्डवक्त्रादि सप्तविध मातरिश्वार्ककिरणशक्तीराकृष्य यानमुखस्थ वक्त्रप्रसारणकेन्द्रमुखे नियोज्य पश्चात्तदाहृत्य शक्त्युद्गमनाळे प्रवेशयेत् । ततः तत्कीलीचालनात् विमानस्य सर्पवत् गमनक्रियारहस्यम् ॥
२३. चापलरहस्यो नाम ॥
शत्रुविमानसन्दर्शनकाले विमानमध्यकेन्द्रस्थ शक्तिपञ्जरकीलीचालनेन एकछोटिकावच्छिन्नकाले सप्ताशीत्युत्तरचतुस्सहस्रमहातरङ्गवेगो जायते । तत्प्रसारणात् शत्रुविमानकम्पनक्रियारहस्यम् ॥
२४. सर्वतोमुखरहस्यो नाम ॥
खपथे स्वविमानविनाशनार्थं परविमानशतैः आवृते सति तदा खविमानशिरः केन्द्रकीलीचालनादनेकविमानवेत् सर्वतोमुखसञ्चारक्रियारहस्यम् ॥