पृष्ठम्:वैमानिकप्रकरणम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वैमानिकपकरणे
१५. ज्योतिर्भावरहस्यो नाम ॥
अंशुबोधिन्यामुक्तप्रकारेण संज्ञानादिषोडशसूर्यकलासु द्वादशाद्याषोडशान्त कला प्रभाकर्षणं कृत्वा आकाशचतुर्थपथस्थ मयूखकक्ष्यस्थितवायुमण्डले नियोजयेत् ॥
तथैव खतरङ्गशक्तिप्रभामाहृत्य वातमण्डल सप्तमावरणस्थ प्रभाशक्त्या सम्मेलयेत् । पश्चादेतत् शक्तिद्वयं विमानस्थनाळपञ्चकहारा विमानगुहागर्भदर्पणयन्त्रतृतीयकोशे सन्धार्य तद्वारा विमानदष्ठॄणां बालातपवत् प्रकाशप्रदर्शनरहस्यम् ॥
१६. तमोमयरहस्यो नाम ॥
दर्पणप्रकरणोक्त तमोशक्त्यपकर्षणदर्पणद्वारा तमशक्तिमाहृत्य विमानपञ्जरवायव्यकेन्द्रस्थ तमोयन्त्रमुखात् तमोविद्युति सन्धाय तत्कीलीचालनात् मध्याह्नकाले अमारात्रिवत् तमोविकारप्रदर्शनरहस्यम् ॥
१७. प्रळयरहस्यो नाम ॥
ऐन्द्रजालिकप्रळयपटलोक्तरीत्या यानपुरोभागकेन्द्रस्थ उपसंहारयन्त्रनाळात् सप्तमजातीयधूममाकृष्य षड्गर्भविवेकोक्त मेघधूमेऽन्तर्धाय तद्धूमं विद्यत्संसर्गात् पञ्चरकन्धवातनाळमुखेषु प्रसार्य तद्द्वारा सर्वपदार्थानां प्रळयवत् नाशक्रियाकरणरहस्यम् ॥
१८. विमुखरहस्यो नाम ॥
ऋक्हृदयोक्तप्रकारे कुबेरविमुखवैश्वानरादि विषचूर्णशक्ती: रौद्रीदर्पणपञ्जरतृतीयनाळे नियम्य वातस्कन्धकीलीचालनद्वारा मूर्छावस्थाप्रदानेन विवर्णकरणक्रियारहस्यम् ॥
१९. ताररहस्यो नाम ॥
वातजलसूर्यकिरणप्रभाशक्तीनां दशसप्तषोडशांशान् खतरङ्गशक्त्या संयोज्य, तच्छक्तिं तारमुखदर्पणद्वारा विमानमुखकेन्द्रशक्तिनाळमुखप्रसारणात् सर्वेषां नक्षत्र मण्ढलवत् प्रदर्शनक्रियारहस्यम् ॥