पृष्ठम्:वेदार्थसङ्ग्रहः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीरस्तु । जयतु जगदशेषं रञ्जयन्नञ्जनाद्वै। शुभगुणविभवेन श्रीमतः विग्रहेण । अनुकलमनुकम्पोद्वेलया लीलया च श्रुनिपरिषदि पुंसामुत्तमः श्रूयमाणः ।। ऊध्य हस्तैो यदीयैौ प्रतिभटदलने बिभ्रनः शाङ्कचक्रे सेव्यावङ्घ्री स्खकंयावभिदधदधरो दक्षिणो यस्य पाणिः । तावन्मात्रं भवाब्धि गमयति भजतामूरुगो वामपणिः श्रीवत्साङ्कश्च लक्ष्मीयेदुरसि लसतः तं भजे वेङ्कटेशम् ।। चक्र शास्ति सुकर्मयोगकलनं, ज्ञानं च शङ्खस्तथा पाणिश्चारुकटेिप्रसञ्जिततलः श्रीभक्तियोगं तथा । श्रीमत्पादसरोजदर्शककरो योगं प्रपतिं परम् यस्यान्वर्थचतुर्भुजस्स भगवान् जेतु लक्ष्मीसखः । शेषाद्रिशिखरलं त्रिभुवनदुरितान्धकारमार्ताण्डम् । भक्तजनपारिजातं वन्दे श्रीवेङ्कटेशमखिलेशम् । श्रीवेङ्कटाद्रिनिलयः कमलाकामुकः पुमान् । अभङ्गुरविभूनिनः तगङ्गयतु मङ्गलम् ।।