पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३८ ]
५९
सुबोधिनीसहितः

विमुच्यत” इत्यादिश्रुतेः ॥ ३८ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यसदानन्द
विरचितो वेदान्तसारः समाप्तः ॥


स्यादिति चेन्न । कण्ठे स्वप्नं समाविशदित्यादिवाक्येषु कण्ठान्निर्गमनाभावश्र- वणात् देहान्तरप्राप्तेस्तु तदन्तरप्रतिपत्तावित्यत्र देहान्निर्गमनश्रवणाद्वेष । म्यम् । तदुकं स्कान्दे—यस्मिन्देहे इढं ज्ञानमपरोक्षे विजायते । तद्देहपात पर्यन्तमेव संसारदर्शनम् । पुरापि नास्ति संसारदर्शनं परमार्थतः । कथं तद्दर्शनं देहविनाशादूर्ध्वमुच्यते । तस्माद्ब्रह्मात्मविज्ञानं दृढं चरमविग्रहे । जायते मुक्तिदं ज्ञानं प्रसादादेव मुच्यत ” इति । तस्मात्सुष्टूक्तं विमुक्तश्च विमुच्यत इति ॥ ३८ ॥ नित्यशुद्धपरिपूर्णमद्वयं सच्चिदात्मकमखण्डमक्षरम् । सर्वदासुखबोधतत्कृतैर्वर्जितं सदहमस्मि तत्परम् ॥ गोवर्धनप्रेरणया विमुक्तक्षेत्रे पवित्रे नरसिंहयोगी । वेदान्तसारस्य चकार टीकां सुबोधिनीं विश्वपतेः पुरस्तात् ।

जाते पञ्चशताधिके दशशते संवत्सराणां पुनः
सञ्जाते दशवत्सरे प्रभुवरश्रीशालिवाहे शके ।
प्राप्ते दुर्मुखवसरे शुभशुचौ मासेऽनुमत्यां तिथौ
प्राप्ते भार्गववासरे नरहरिष्टीकां चकारोज्वळलाम् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यं श्रीमत्कृष्णानन्दभगवत्पूज्यपाद-
शिष्यनृसिंहसरस्वतीकृता सुबोधिन्याख्या
वेदान्तसारटीका समाप्ता ॥


1. Ko¢८ 5. 1. १. So LL. ; CFJK. स्वमे. २. तदनन्तर J.; तदनन्तरं KIL. ३. Sita-Star १८४८ 3. . 76-8 (pp. 306-).