‘‘लये सम्बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः। |
नास्वादयेद्रसं तत्र निःसङ्गः प्रज्ञया भवेत्” इति,
तदुक्तमिति । पूर्वोक्तनिद्रालक्षणे लये जाते सति तन्निवृत्यर्थं चित्तं सम्बो धयेच्चित्तगतजाड्यादिपरित्यागेन चित्तमुद्बोधयेत् । उक्तविक्षेपयुक्तं चित्तं यदा भवति तदा विषयवैराग्यादिना चित्तं शमयेद्बहिर्मुखतां परित्यज्यान्तर्मुखं कुर्यात् । उक्तरागादिकषायसहितं चित्तं यदा भवेत्तदा विजानीयादियं रागा- दिवासना बाह्यविषयप्रापिका न त्वखण्डवस्तुप्रापिकातो नेयं समीचीनेति विविच्य प्रत्यक्प्रवणवासनायाः सकाशादियं निकृष्टातस्त्याज्येयमिति जानीया- दित्यर्थः । यद्वा सम्यग्वस्तुन्यप्राप्तं चित्तं यदा भवति तदा तच्चित्तं कषाय सहितं जानीयात् । तच्चित्तं यावता कालेन रागादिवासनाक्षयसहितं भवति तावत्कालं तच्चित्तं स्वस्थानान्न चालयेदिति न कम्पयेत् । वासनाक्षयानन्तरं चित्तं स्वत एव प्रत्यक्प्रवणं भवतीत्यर्थः । नास्वादयेदिति पूर्वोक्तं सविकल्पक रसं विषयप्रपञ्चभारत्यागजन्यं नास्वादयेन्नानुभवेत् । तत्र युक्तिमाह निःसङ्ग इति । यतो निःसङ्गो वैषयिकसुखदुःखादिसङ्गरहितोऽतः प्रज्ञया युक्तो भवेत्स्थिरप्रज्ञो भवेदित्यर्थः । तदुक्तं भगवता –‘प्रजहाति यदा कामा न्सर्वान्पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यत” इति । तस्माल्लयादिविघ्नाभावविशिष्टचित्तस्य चिन्मात्रतयावस्थानं निर्विकल्पकसमा धिरित्यर्थः । तत्र भगवानाह यथा दीप इति ॥
अथ निर्विकल्पकसमाधौ स्वगुरूपदिष्टमार्गेण यथामति किञ्चिद्विचार्यते । पञ्चभूमिकोपेतस्य चित्तस्य भूमिकात्रयपरित्यागेनावशिष्टभूमिकाद्वयं समाधि रित्युच्यते । कास्ताः पंचभूमिकाः । क्षिप्तं मूढं विक्षिप्तमेकाग्रं निरुद्धं चेति पञ्च चित्तभूमिकाः । तत्रासुरसम्पल्लोकशास्त्रदेहवासनासु वर्तमानं क्षिप्त- मित्युच्यते । निद्रातन्द्रादिप्रस्तं चित्तं मूढमियुच्यते । कादाचित्क ध्यान युक्तं बहिर्गमनशीलमप्युक्तक्षिप्ताद्विशिष्टतया विक्षितं चित्तमित्युच्यते । तत्र क्षिप्तमूढयोः समाधित्वशङ्कैव नास्ति । विक्षिप्ते तु चेतसि विक्षेपान्तर्गत- तया दहनान्तर्गतबीजवचित्तस्य सद्य एव विनाशात्तदापि न समाधिः । एकाग्रतां पतञ्जलिः सूत्रयति-‘शान्तोदितौ तुल्यप्रत्ययैौ चित्तस्यैकाग्रता- परिणाम’ इति । अस्यार्थः । शान्तोऽतीतः । उदितो वर्तमानः । प्रत्यय
१. G८d ii. 55. २. See Bhojadova on Yogustry i. 2. ३. Yogedro ii. 12.