पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३१, ३२]
४९
सुबोधिनीसहितः

इन्द्रियाणां स्वस्वविषयेभ्यः प्रत्याहरणं प्रत्याहारः। अद्वितीय वस्तुन्यन्तरिन्द्रियधारणं धारणा । तत्राद्वितीयवस्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवाहो ध्यानम् । समाधिस्तूक्तः सवि कल्पक एव ॥ ३१ ॥

 एवमस्याङ्गिनो निर्विकल्पकस्य लयविक्षेपकषायरसास्वाद लक्षणाश्चत्वारो विघ्नाः सम्भवन्ति । लयस्तावदखण्डवस्त्वन वलम्बनेन चित्तवृत्तेर्निद्रा । अखण्डवस्त्वनवलम्बनेन चित्त वृत्तेरन्यावलम्बनं विक्षेपः । लयविक्षेपाभावेऽपि चित्तवृत्ते


न्यानि भूतानि मात्रामुपजीवन्ति”, “एषोऽस्य परमानन्दः, आत्मैवानन्दः", ‘यदेचे आकाश आनन्दो न स्यात्’ , ‘आनन्दायेव खल्विमानि भूतानि’ इत्यादिश्रुतिभिश्च नित्यात्मसुखस्य प्रतिपादितत्वाच्छब्दादिवैषयिकसुखव्यति- रिक्तनिरतिशयानन्दसद्भावे प्रमाणाभावादित्येतदपि निरस्तं बोद्धव्यम् । सम्प्रति धारणां लक्षयति अद्वितीयेति । सर्वेषां बुद्धिसाक्षितया विद्यमानेऽद्वितीय वस्तुनि चित्तनिक्षेपणं धारणेत्यर्थः । धारणापाटवाभावेन चित्तस्यैर्याभावात् । अद्वितीयवस्तुनि विच्छिद्य विच्छिद्य चित्तवृत्तिप्रवाहीकरणं ध्यानमित्याह तत्राद्वितीयेति । समाधिरूक्त एव सविकल्पकः स्मर्तव्य इत्याह समधि स्त्विति ॥ ३५ ॥

 उक्तयमाद्यष्टाङ्गसहित निर्विकल्पकसमाधेर्निर्विघ्नानुष्ठानसिद्ध्यर्थं विघ्नज्ञानव्य- तिरेकेण निवारणस्य कर्तुमशक्यत्वादस्य चतुरो विघ्नान्दर्शयति एवमस्येति । तत्राच विघ्नं लक्षयति लय इति । तयो द्विविधः। चिरकालमुक्ताष्टाङ्गसहित निर्विकल्पकसमाध्यभ्यासपाटवे नातितप्तलोहतलक्षिप्तजलबिन्दुवतैलरहितदीप कलिकावच्च प्रत्यगभिन्ने परमानन्दे चित्तवृत्तेर्लयः प्रथमः । द्वितीयस्तु मूर्च्छा वस्थावदालस्येन चित्तवृत्तेर्बाह्यशब्दादिविषयग्रहानादरे सति प्रत्यगात्मस्वरू- पानवभासनादृत्तेः स्तब्धीभावलक्षणनिद्रारूपः । तत्राथमङ्गीकृत्य द्वितीयस्य विघ्नत्वेन तस्यागाय तत्वरूपमाह अखण्डेति । द्वितीयं विघ्नमाह अखण्डेति । अखण्डवस्तुग्रहणायान्तर्मुखतया प्रवृत्तायाश्चित्तवृत्तेश्चिदनवलम्बनेन त्रस्तः

1. ABCEK. ०mit वृत्ति. १. Brih. 4. 3. 32. २. C. I'di%, 2, 5. 1. ३. Iderm. 2. . 1. ४. Idead. 3. 6. 1. ५. See Notes.