सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः ३०]
४५
सुबोधिनीसहितः

निदिध्यासनम् । समाधिर्द्विविधः सविकल्पको निर्विकल्प कवेति । तत्र सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलयान पेक्षयाद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरवस्थानम् । तदा मृन्मयगजादिभानेऽपि मृद्भानवदैतभानेऽप्यद्वैतं वस्तु भासते । तदुक्तम्--

दृशिस्वरूपं गगनोपमं परं
सकृद्विभातं त्वजमेकमक्षरम् ।


इत्याह सविकल्पको निर्विकल्पकश्च । तस्य लक्षणमाह तत्रेति । तत्र तयोः सविकल्पकनिर्विकल्पकयोर्मध्ये सविकल्पकोऽपि द्विविधः । अहं ब्रह्मास्मीति शब्दानुविद्धतयाद्वितीये वस्तुनि चित्तवृत्तेरवस्थानमित्येकः । द्वितीयस्तु ज्ञातृज्ञानज्ञेयत्रिपुटीविलयानपेक्षयाहं ब्रह्मास्मीति शब्दानुविद्धतयाद्वितीये वस्तुन्यविच्छेदेन चित्तवृत्तेरवस्थानमित्यर्थः । ननु ‘‘भक्षितेऽपि लशुने न शान्तो व्याधिः” इतिन्यायेनोक्तसविकल्पकसमाध्योः सकलभेदनिराकरणाय प्रवर्तनात्तयोरपि ज्ञात्रादिभेदविषयत्वेन नाद्वैतवस्तुमात्रभानं तत्रेत्याशङ्कयो- त्तरमाह तदेति । तदा सविकल्पकसमाध्यनुभवकाले ज्ञात्रादिभेदप्रतीता वप्यद्वैतं वस्तु भासत एव । सुवर्णमयकुण्डलादिभाने सुवर्णभानवन्मृन्मय गजादिभाने मृदभानवच गजादिभानस्य वाचारम्भणमात्रत्ववज्ज्ञात्रादिभा नस्यापि वाचारम्भणमात्रवादद्वैतमेव वस्तु भासत इत्यर्थः । यद्वा सर्वं खल्विदं ब्रह्मैतदात्म्यमिदं सर्वमित्यादिश्रुतिबलात्सर्वमहमिति गिरिनदी समुद्रात्मकं सर्वं जगत्स्वाभिन्नसच्चिदानन्दब्रह्मत्वेनानुभूय तस्य दग्धपटन्या- येन प्रपञ्चभानेऽप्यद्वैतं सच्चिदानन्दलक्षणं वस्तु भासत एवेत्यर्थः । तदुक्तं भगवता-‘वासुदेवः सर्वमिति स महात्मा सुदुर्लभ’’ इति । मूलकारोs. प्यस्मिन्नर्थे ग्रन्थान्तरसम्मतिं दर्शयति तदुक्तमिति । ओमिति यत्परं ब्रह्म तदेवाहमित्यन्वयः । किं तदित्याह दृशिस्वरूपमिति । दृशिर्दृष्टिस्तस्याः स्वरूपं दृष्टत्वं तद्यस्य परमात्मस्वरूपस्य तदृशिस्वरूपं साक्षिस्वरूपमित्यर्थः । तदुक्तं - 1. ABDHK. insert भेद after विकल्प. 2. Updes' s%hosy): 73 (x. I.). The reading of the editions, तदुक्तमभियुक्तैः has no support from my Mss. Ramatirtha explains तदुक्तमभिनीय which is also the reading of D. १. See doccing i (2nd. edn.). २. Ditto. ३. Gठ vii. 19. १. Iळem, xiii. 22.