त्यस्वभावपरमानन्दानन्ताद्वयं ब्रह्मास्मीत्यखण्डाकाराकारिता- चित्तवृत्तिरुदेति । सा तु चित्प्रतिबिम्बसहिता सती प्रत्य गभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते तदा पटकारणतन्तुदाहे पटदाहवदखिलकारणेऽज्ञाने बाधिते सति तत्कार्यस्याखिलस्य बाधितत्वात्तदन्तर्भूताखण्डाकारा कारिता चित्तवृत्तिरपि बाधिता भवति । तत्र प्रतिबिम्बितं
दोषराहित्यम् । बुद्धपदेन स्वप्रकाशस्वरूपत्वेन जाख्यादिकं व्यवच्छिद्यते । मुक्तपदेन सर्वोपाधिराहित्यम् । सत्यमित्यविनाशिस्वभावत्वम् । परमानन्द पदेन वैषयिकमनुष्यानन्दादिचतुर्मुखब्रह्मानन्दपर्यन्तानां कर्मजन्यत्वेन साति- शयस्वेन क्षयिष्णुत्वेन च तुच्छत्वात्तेभ्यो विलक्षणं निरतिशयानन्दस्वरूपस्त्वं प्रतिपाद्यते । अनन्तपदेन घटादिवत्परिच्छेदराहित्येन देशतः कालतो वस्तु तश्चापरिच्छिन्नत्वं बोध्यते । अद्वयमिति नानात्वनिषेधेनैकत्वं बोध्यत इत्यर्थः। ननु यथा दीपप्रभादित्यमण्डलं न व्याप्नोति न च प्रयोजनमस्ति तथा नित्य- शुद्धस्वप्रकाशमात्मानं जडा चित्तवृत्तिः कथं विषयीकृत्योदेति किं प्रयोजनं चेत्याशङ्कयाह सा त्विति । सा चित्तवृत्तिर्न शुद्धब्रह्मविषयिणी किन्त्वज्ञान विशिष्टप्रत्यगभिन्नपरब्रह्मविषयिणी । सा च चैतन्यप्रतिबिम्बसंवलिता । सती चैतन्यगतमज्ञानं निवर्तयति । तस्याश्चैतन्यावरकाज्ञाननिवृत्तिरेव प्रयोजन मित्यर्थः । नन्वधिकारिणस्तत्त्वमस्यादिवाक्यश्रवणोत्पन्नखण्डचैतन्यवृत्या तदा श्रिताज्ञाने निवारितेऽपि तत्कार्यस्य सकलचराचरप्रपञ्चस्य प्रत्यक्षतया भास मानत्वाकथमद्वैतसिद्धिरित्याशङ्का कारणाज्ञाननाशे तत्कार्यंसकप्रपञ्चना शादद्वैतसिद्धि रित्येतत्सदृष्टान्तमाह तदा पटकारणेति । नन्वज्ञाननाशेन तत्कार्यप्रपञ्चस्य नाशोऽस्तु तथाप्यखण्डाकारवृत्तेरनिवृत्तेरद्वैतहानिरित्याशङ्कयाह तदन्तर्भूतेति । अखण्डाकारवृत्तेरप्यज्ञानतत्कार्यान्तर्भूतत्वात्तन्निवृत्या तन्नि- वृत्तेर्नाद्वैतहानिरित्यर्थः । ननु तथाप्य खण्डाकारवृत्तिप्रतिबिम्बितचैतन्याभास- सत्वात्कथमद्वैतसिद्धिरित्याशङ्कयाह तत्र प्रतिबिम्बितमिति । वृत्तिनिवृत्तौ तत्प्रतिबिम्बितचैतन्यस्य बिम्बावभासनासमर्थत्वाद्वृत्त्युपाधिबाधेन तत्प्रतिबि- म्बितचैतन्यमपि चैतन्यमात्रतयावशिष्यते । दर्पणोपाधिविगमे तत्प्रतिबिम्बि तमुखाभासस्य बिम्बभूतसुखमात्रतावशेषवदित्यर्थः । अयं भावः । शोधि ततत्त्वपदार्थस्याधिकारिणस्तद्विजृम्भितगुरुशास्त्रादिभ्यस्तत्त्वमसीत्युपदेशेनाहं
1. See Notes,