सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः १६, १७]
२३
सुबोधिनीसहितः

जातानि मनुष्यपश्वादीनि । अण्डजान्यण्डेभ्यो जातानि पक्षि- पन्नगादीनि । उद्भिज्जानि भूमिमुद्भिद्य जातानि कक्षवृक्षादीनि । स्वेदजानि खेदेभ्यो जातानि यूकामशकादीनि ॥ १६ ॥

 अत्रापि चतुर्विधसकलस्थूलशरीरमेकानेकबुद्धिविषयतया वनवज्जलाशयवद्वा समष्टिर्वृक्षवज्जलवद्वा व्यष्टिरपि भवति । एतत्समष्ट्युपहितं चैतन्यं वैश्वानरो विराडित्युच्यते सर्वनराभि मानित्वाद्विविधं राजमानत्वाच्च । अस्यैषा समष्टिः स्थूलशरीर मन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं जाग्रदिति च व्यपदिश्यते । एतद्ययुपहितं चैतन्यं विश्व इत्युच्यते सूक्ष्मशरीराभिमानर्भपरित्यज्य स्थूलशरीरादिप्रविष्ट त्वात् । अस्याप्येषा व्यष्टिः स्थूलशरीरमन्नविकारत्वादेव हेतोर नमयकोशो जाग्रदिति चोच्यते । तदानीमेतौ विश्ववैश्वानरों


 चोत्पत्तिर्भवतीत्यर्थः । चतुर्विधशरीराण्युद्दिशति चतुर्विधेति । तानि च यथो. देशं विवृणोति जरायुजानीति ॥ १६ ॥

 पूर्ववदत्रापि समष्टिव्यष्टिभेदं दर्शयति अत्रापीति । चतुर्विधशरीरजा तमपि शरीरमित्येकबुद्धित्रिपयत या वनवत्समष्टित्व प्रत्येकं तच्छरीरविषय तयानेकडग्इि वि पयस्यद्यष्टियं च लभत इत्यर्थः । अधुना भूरादिचतुर्दशभु चनान्तर्गतचतुर्विधस्थूलशरीरसमष्ट्युपहितचैतन्यस्य वैश्वानरत्वापरपर्यायं वैरा जत्वं दर्शयति एतत्समष्टीति । त ग्र युक्तिमाह सर्वेति । सर्वप्राणिनिकायेप्व- हमित्यभिमानवत्वाद्वैश्वानरत्वं विविधं नानाप्रकारेण प्रकाशमानत्वा च्च वैरा जत्वं लभत इत्यर्थः। अस्यैवेति । अस्य विराटचैतन्यस्यैषा पूर्वोक्ता या ब्रह्मा ण्डान्तर्गतचतुर्विधस्थूलशरीरसमष्टिरेव स्थूलशरीरमित्यर्थः । अन्नविकारेति । अन्नविकारबाहुल्यादन्नमयत्वमात्माच्छादकत्वात्कोशत्वं स्थूलशरीरादि विषय प्रयुक्तसुखदुःखभोगायतनत्वाच्च स्थूलशरीरत्वमिन्द्रियैरर्थोपलब्धेश्च जाग्रद वस्थात्वं च घटत इत्यर्थः । चक्षुर्विधस्थूलशरीरसमष्ट्युपहितं चैतन्यं सप्रपञ्च मभिधायेदानीं तव्यष्ट्युपहितं चैतन्यमभिधत्त एतव्यष्टीति । एतेषां चतु

1. So ABCJK. ५. &o® Notes. 3. 1. omit च स्थूल- शरीरं. 4. AGFJK. Cond परित्यज्यः. ४. ABCDs, insort स्थूल भोगायतनत्वात् whilst the other six omit it.