सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
खण्डः १३]
१७
सुबोधिनीसहितः

 सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि । अवय वास्तु ज्ञानेन्द्रियपञ्चकं बुद्धिमनसी कर्मेन्द्रियपञ्चकं चायुपञ्चकं चेति । ज्ञानेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि । एतान्याकाशादीनां सात्विकांशेभ्यो व्यस्तेभ्यः पृथक् पृथक् क्रमेणोत्पद्यन्ते । बुद्धिर्नाम निश्चयात्मिकान्तःकरणवृत्तिः । मनो नाम सङ्कल्पविकल्पात्मिकान्तःकरणवृत्तिः । अनयोरेव चित्ताहङ्कारयोरन्तर्भावः । एते पुनराकाशादिगतसात्त्विकां शेभ्यो मिलितेभ्य उत्पद्यन्ते । एतेषां प्रकाशात्मकत्वात्सा- त्त्विकांशकार्यत्वम् । इयं बुद्धिज्ञानेन्द्रियैः सहिता विज्ञानमय कोशो भवति । अयं कर्तृत्वभोक्तृत्वसुखित्वदुःखित्वाद्यभि-


 तम् । अपञ्चीकृतभूतोस्थं सूक्ष्माङ्गं भोगसाधनम्’ । इति वचनादप्यपञ्चीकृत भूतेभ्योऽपञ्चीकृतसूक्ष्म शरीराणि पञ्चीकृतस्थूल भूतेभ्यः स्थूलशरीराणि चोत्प धन्त इत्याह एतेभ्य इति ॥ १२ ॥

 सूक्ष्मशरीरस्वरूपभूतानवयवानाह अवयवस्विति । सात्त्विकांशादाकाश च्छोत्रमुत्पद्यते सात्त्विकांशाद्वायोस्त्वगिन्द्रियं सात्त्विकांशात्तेजसश्चक्षुः सात्त्वि- कांशाज्जलजिह्वा सात्त्विकांशायाः पृथिव्याः सकाशाद् घ्राणेन्द्रियं चेति क्रमेणोत्पद्यन्त इत्याह एतानीति । बुद्धेर्लक्षणमाह बुद्धिर्नामेति । ब्रहैवाहमिति निश्चयात्मिकान्तःकरणवृत्तिरेव बुद्धिरित्यर्थः । मनसो लक्षणमाह सनो नामेति । अहं चिद्रूपो देहो वेति संशयात्मिकान्तःकरणवृत्तिरेव मन इत्यर्थः । स्मरणा त्मकचित्तस्य गर्वात्मकाहङ्करस्य च बुद्धिमनसोरन्तर्भाव इत्याह अनयोरेवेति । यद्यप्यन्तःकरणत्वेन चतुर्णामेकत्वं तथाप्येकस्यैव पुरुषस्य पाचकः पाठक इत्यादि- वृत्तिभेदाद्भेदवदेकस्याप्यन्तःकरणस्य निश्चयसंशयस्मरणाहङ्कारविषयभेदैर्बुध्या- दिभेद इत्यर्थः । बुद्ध्यादीनामुत्पत्तिप्रकारं दर्शयति एते पुनरिति । एतेषां चतुर्णा सात्त्विकांशेभ्यो भूतेभ्य उत्पत्तौ निमित्तमाह एतेषामिति । बुध्द्यादीनां प्रकाशात्मकत्वात्सात्त्विकांश भूतकार्यत्वमित्यर्थः । बुद्धेर्विज्ञानमयकोशस्वं दर्श यति इयं बुद्धिरिति । बुद्धेः सर्वकार्येत्वाज्ज्ञानेन्द्रियसाहित्येन प्रकाशाधिक्या द्विज्ञानमयत्वम्। आत्माच्छादकत्वाच्च कोशत्वमित्यर्थः । विशुद्धबुद्धिप्रतिबि “म्बितचिदात्मनो जीवत्वं दर्शयति अयं कर्तृत्वेति । तप्तायःपिण्डवद्युच्चारोपितं चैतन्यं वस्तुतोऽकर्तृभोक्तृनित्यानन्दापरिच्छिन्नमक्रियमपि भोक्तृत्वकर्तुर्वदुःखि त्वपरिच्छिन्नत्वक्रियावत्वाद्यभिमानेन स्वर्गादिलोकान्तरगामित्वं व्यावहारिक