स्वोपाधिप्रधानतयोपादानं च भवति । यथा लूता तन्तु कार्यं प्रति खप्रधानतया निमित्तं खशरीरप्रधानतयोपादानं च भवति ॥ ११ ॥
प्राधान्येन निमित्तत्वं स्वाज्ञानप्राधान्येनोपादानत्वं च सम्भवतीत्याह शक्ति द्वयवदिति । यथायस्कान्तसन्निधाने जडमयं लोहं चेष्टते तथा चैतन्यसन्निधाने जडमयमज्ञानं चेष्टत इत्यज्ञानविकारं प्रति चैतन्यस्य निमित्तत्वम् । जडाकाशा दिकार्यं प्रति मायायाः साक्षादुपादानत्वेन ामायाविन ईश्वरस्यपि परस्परयोप चारादुपादानत्वं न विरुध्यत इत्यर्थः । यदुक चैतन्यस्य निमित्तकारणस्य कार्यानु- प्रवेशो न स्यादिति तन्न । कारणस्य कार्यानुप्रवेशनियमस्योपादानकारणविषय- त्वेन निमित्तकारणविषयत्वाभावात् । “तत्सृष्ट्वा’ इत्यादिश्रुतेरप्युपादानकारण परत्वात् । यद्यप्युक्तमात्मन उपादानकारणत्वे प्रपञ्चस्यानित्यत्वं न स्यादिति तदपि न तस्य परिणामविषयत्वेन विवर्तविषयत्वाभावात्प्रपञ्चस्य ब्रह्मविवर्ते त्वा द्विवर्तत्वं च स्वस्वरूपापरित्यागेन स्वरूपान्तरप्रदर्शकत्वम् । यथा रज्वव च्छिन्नचैतन्यनिष्ठाज्ञानस्य रज्जुस्वरूपापरित्यागेन सर्पादिस्वरूपान्तरप्रदर्शकत्वं तथेश्वरचैतन्यनिष्ठाज्ञानशक्तेरपि चैतन्यस्वरूपापरित्यागेनाकाशादिस्वरूपान्तरा कारेण प्रदर्शकत्वम् । एतावताकाशादिप्रपञ्चस्य नित्यत्वं न सम्भवत्यज्ञानस्य मिथ्यारूपत्वेन त जन्याकाशादिप्रपञ्चस्यापि मिथ्यात्वात् । न चैवमज्ञानस्य मिथ्यात्वे तत्प्रयुक्तबन्धमोक्षयोरपि मिथ्यात्वप्रसङ्ग इति वाच्यमिष्टापतेः। तदुक्तं भागंवते-“बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः । गुणस्य माया मूलत्वान्न मे मोक्षो न बन्धनम्” । इत्यलमतिविस्तरेण । एकस्यैवात्मनो निमित्तोपादानकारणल्वे दृष्टान्तमाह यथा लूतेति । यथा लूता स्वोत्पाद्यमानं तन्तुलक्षणं कार्यं प्रति स्वचैतन्यप्रधानतया निमित्तं चैतन्य सन्निधानञ्चयति रेकेण जडस्य देहस्य मृतशरीरवत्तन्तुजनकत्वासम्भवात्स्वशरीरप्राधान्येनो पादानं च भवति । अशरीरस्यसाक्षात्तन्तुजनकत्वासम्भवाच्छरीरस्यसाक्षात् तन्तुपादानत्वेन तदवच्छिन्नचैतन्यस्याप्युपादानत्वेनोपचरात् । एवमीश्वर- स्यापि स्वचैतन्यप्रधानतया निमित्तत्वं स्वोपाधिप्रधानतयोपादन त्वं च भव तीत्यर्थः॥ ११ ॥ 1. लूतातन्तुः स्वकार्यं CBJK. Ond originally B. १. . १. 6. 1. २. i. 11. 1. ३. The Mss. add तन्तुः after लता. The Calc, edition inserts जन्तुः