चतुर्थं मन्यन्त” इत्यादिश्रुतेः । इदमेव तुरीयं शुद्धचैतन्यम
ज्ञानादितदुपहितचैतन्याभ्यां तप्तायःपिण्डवदविविक्तं सन्महा
वाक्यस्य वाच्यं विविक्तं सल्लक्ष्यमिति चोच्यते ॥ ९ ॥
अस्याज्ञानस्यावरणविक्षेपनामकमस्ति शक्तिं द्वयम् । आव रणशक्तिस्तावदल्पोऽपि मेघोऽनेकयोजनायतमादित्यमण्डलम वलोकयितृनयनपथपिधायकतया यथाच्छादयतीव तथाज्ञानं परिच्छिन्नमषप्यात्मानमपरिच्छिनमसंसारिणमवलोकयितृबुद्धि पिधायकतयाच्छादयतीव तादृशं सामर्थ्यम् । तदुक्तम्--
अस्य चैतन्यस्य तुरीयत्वं वक्ष्यमाणविश्वाद्यपेक्षयेति द्रष्टव्यम् । अस्मिन्नर्थे श्रुतिं संवादयति शिवमिति । आदिपदात् त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् । तेभ्यो विलक्षणः साक्षी विन्मात्रोऽहं सदाशिव’ इत्यादिश्रुत्यन्तर सङ्गहः। एतदेव विशुद्धचैतन्यं तदेव पूर्वोक्तचैतन्यद्वयेन सहैकत्वविवक्षायां महावाक्यस्य वाच्यत्वं लभते भेदविवक्षायां च लक्ष्यत्वं लभत इत्याह इद मेवेति । त्रयाणां चैतन्यानां चैतन्येन रूपेणैकत्वेऽप्यवच्छिन्नानवच्छिन्नत्वेन रूपेण वाच्यलक्ष्यत्वे सम्भवत इत्यर्थः ॥ ९ ॥
अथेदानीं स्वप्रकाशश्चिद्रूपस्यात्मनः कथं कुण्ठितप्रकाशत्वं कथं वासङ्गो दासीनस्यामन आकाशादिप्रपञ्चजनकत्वमित्येतन्महाविरोधपरिहारायाज्ञानस्य शक्तिद्वयं निरूप्यते अस्याज्ञानस्येति । ते एव नामतो निर्दिशति आवरणेति । सच्चिदानन्दस्वरूपमावृणोतीत्यावरणशक्तिः । ब्रह्मादिस्थावरान्तं जगज्जलबुझ्द- वन्नामरूपात्मकं विक्षिपति सृजतीति विक्षेपशक्तिरिति शक्तिद्वयमज्ञानस्येत्यर्थः। नन्वपरिच्छिन्नस्य प्रकाशचिद्रूपाखण्डपरिपूर्णस्वरूपस्यात्मनः परिच्छिन्नेनानित्येन जडतमोरूपेणाव्यापकेनाज्ञानशक्ति विशेषेण कथमावरणमित्याशङ्कय वस्तुतोऽ ज्ञानस्यात्माच्छादकत्वाभावेऽपि प्रमातृबुद्धिमात्राच्छादकत्वेनाज्ञानस्यात्माच्छा दकत्वमुपचारादुच्यत इत्याह आवरणेति । यथात्यल्पोऽपि मेघोऽनेकयोजन- विस्तीर्णमादित्यमण्डलमवलोकयितृपुरुषदृष्टिमात्राच्छादकरत्वे नाच्छादयतीत्युपच
1. Ma¢t. . 2. See Notes. 3. Hars४doculddle, 10.
१. This sentence in J K. only. २. This clause in KIL. only. It was probably taken from Ramatirtha's commentary . ३. Kcoulgo. 18. 2