स्थूलसूक्ष्मप्रपञ्चलयस्थानमिति चोच्यते । यथा वनस्यव्यष्ट्य
भिप्रायेण वृक्षा इत्यनेकत्वव्यपदेशो यथा वा । जलाशयस्य
व्यष्ट्यभिप्रायेण जलानीति तथाज्ञानस्य व्यभिप्रायेण तद
नेकस्वव्यपदेश “इन्द्रो मायाभिः पुरुरूप ईयत” इत्यादिश्रुतेः।
अत्र व्यस्तसमस्तव्यापित्वेन व्यष्टिसमष्टिताव्यपदेशः । इयं
व्यष्टिर्निकृष्टोपाधितया मलिनसत्वप्रधाना । एतदुपहितं चैत
न्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञं इत्युच्यत एकाज्ञानावभा
इत्यत आह सर्वोपरमत्वादिति । सर्वस्य स्थूलसूक्ष्मोपाधेः कारणोपाधौ लीन त्वात्सुषुप्तिस्वमित्यर्थः । ननु स्थूलसूक्ष्मप्रपञ्चलयस्थानस्य कथं सुषुप्तित्वमि त्याशङ्कय संज्ञाभेदो न वस्तुभेद इत्याह अत एव स्थूलेति । यतः कारणात्- सुषुप्तिस्वमत एव पञ्चीकृतभूतकार्यस्य स्थूलप्रपञ्चस्य जाग्रदवस्थाविशिष्ट स्यापञ्चीकृतभूतकार्यस्य सूक्ष्मस्वाप्तप्रपञ्चस्य च लयस्थानमित्यपि व्यवह्रियत इत्यर्थः । समष्टिरूपाज्ञानं सप्रपञ्चं निरूप्येदानीं व्यष्टिभूतमज्ञानं सप्रपञ्चं निरूपयितुं दृष्टान्तौ तावद्दर्शयति यथा वनस्येति । यथा बहुवृक्षसमुदायस्य वनत्वेन रूपेणैकत्वव्यवहारेऽपि प्रत्येकवृक्षविवक्षया चूतादयो बहवो वृक्षा स्तिष्ठन्तीति बहुत्वव्यवहारो यथा वा वापीकूपतडागादिषु समुदायविवक्षया जलाशय इत्येकत्वव्यवहारेऽपि प्रत्येकं वाप्यादि विवक्षया बहूनि जलानि तिष्ठन्तीति बहुत्वव्यवहारस्तथा सकलप्रपद्धकारणस्याज्ञानस्य समुदायरूपेणै करवेऽप्यहङ्कारादिकारणीभूतानां जीवगताज्ञानानां प्रत्येकविवक्षया बहुत्वव्य वहार इत्यर्थः । अस्मिन्नर्थे श्रुतिं प्रमाणयति इन्द्र इति । ननु तथाप्येकस्यै वाज्ञानस्य तदवच्छिन्नचैतन्यस्य वा व्यष्टिसमष्टिता कुत इत्यत आह अत्र व्यस्तेति । भेदविवक्षया व्यष्टित्वं मृद्घटादिवत् । अभेदविवक्षया च समष्टित्वं मृत्पिण्डवदित्यर्थः । तन्न महाप्रलयकालीनसमष्टिभूतविशुद्धससत्वप्रधानाया मूलप्रकृतेः सकाशादैनन्दिनप्रलयकालीनव्यष्ट्युपाधिभूतजीवप्रकृतेर्मेदं दर्श यति इयं व्यष्टिरिति । इयं जीवगता सुषुत्यवस्थापनाहङ्कारादि विक्षेप संस्कारादिरूपा निकृष्टोपाधित्वेन मलिनसत्वप्रधानेत्यर्थः । अनेनोपा धिना प्राज्ञचैतन्यं लक्षयति एतदुपहितमिति । अत्रोपपत्तिमाह एकाज्ञा- नेति । ईश्वरगतमूलाज्ञानस्य जीवगताहङ्कारादि विलेपसंस्कारादिरूपाज्ञानस्य च वस्तुत एकत्वेन तदवभासकेश्वरजीवचैतन्ययोरप्येकत्वमित्यर्थः। सौषुप्तजीव
1. Rigvedo 6. 47. 18. 2. ‘रवाद' BCDDEJK. 3. See Notes.