पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ । वेदान्तसारटीका [ खण्डः ३० ‘‘तस्याभिध्यानाद्योजनात्तत्त्वभावा द्भूयश्चान्ते विश्वमायानिवृत्तिः” ॥ इति श्वेताश्वतरीयो मन्त्रः समाधिमनुष्ठेयं सूचयति । ‘सँहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्’ इतिन्यायेनायमर्थो निर्णीतः । श्रवणा- दीनां लक्षणमाह-श्रवणं नामेत्यादिना । ‘‘गतिसामान्यात्” इतिन्यायमा श्रित्य अशेषवेदान्तानामित्युक्तम् ।“न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि’ इंतिन्यायमाश्रित्य अद्वितीयवस्तुनीत्युक्तम् । लिङ्गानि कानीत्यपेक्षायां तानि विभजते-लिङ्गानि त्विति । उपक्रमोप संहाराख्यमाद्यं लिङ्गं लक्षयित्वोदाहरति--यथा छान्दोग्य इति । पुनः पुनरित्यस्य भावः पैौनःपुन्यम् । तत्रैव छान्दोग्यषष्ठे मानान्तराविषयीकरण माचार्यवान्पुरुषो वेदेति सूचितमिति शेषः । तदनुष्ठानस्य चेति सगुण- विद्याभिप्रायेणोक्तम् । आचार्यवान्पुरुषो वेदेति साहचर्यादिहोदाहृतं न पुनः फलवचनं तत् । तस्य तावदिति तु फलवचनमिहोदाहरणमिति द्रष्टव्यम् । उदाहरणान्तरं स्पष्टार्थम् । तथा च न्यायो वाचारम्भणश्रुतेरूपपत्तिपरत्वनिर्ण यपरः ‘‘तदुनन्यत्वमारम्भणशब्दादिभ्य’ इति । ११ ११ एवं शाखान्तरेष्वप्युपक्रमोपसंहारादि निरूपणीयम् । तथा हि बृहदा रण्यके तावत् -‘आत्मेत्येवोपसीतात्र ह्येते सर्वं एकं भवन्ति” इत्युपक्रमः। “पूर्णमद’ इत्युपसंहारः। ‘‘स एष नेति नेत्यात्मा” इत्यभ्यासः । ‘त त्वौपनिषदं पुरुषं पृच्छामि”” इत्यपूर्वत्वं सूचितम् । «‘अभयं वै जनक प्राप्तोऽसि’ , ‘‘ब्रह्मैव सन् ब्रह्माप्येति” इत्यादि फलम् । ‘तद्यो यो देवानां इत्याद्यर्थवादः। ‘स यथा दुन्दुभेः” इत्याद्युपपत्तिः । तथा तैत्तिरीयके -‘‘ब्रह्मविदाप्नोति परं” इत्युपक्रमः । ‘आनदो ब्रह्मेति व्यजानात्” इत्युपसंहारः । ‘‘स ’ यश्चायं’’ इत्यभ्यासः । ‘‘यो वेद निहितं गुहायां” इत्यपूर्वेतासूचनम् । ‘‘अभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति” इति फलश्रुतिः । सोऽकामयत ” इत्याद्यर्थवादः । ‘अस- १४ १७ ८८ १. Soet. 1. 10. २. Br८llmostr¢ 3. 4. 47. ३. Itle4. 1. 1. 10. ४. Iden. 3. 2. 11 . ५. वेत्ति. M. ६. Idea. 2. 1. 14. ७. Bri८1. 4. 7. ८. Iden. 5. 1. 1. ९. He . 3. 9. 26. १०. demn. ११. Iden. 4. 2. 4. १२. Idern. 4. 4. 6. १३. Ided. 1. 4, 10. १४Ider. 2. 4. 7. १५. T»i%. 2. 1. 1. १६. Ideo. 3. 6. 1. १७. @er. 2. 8. 1. १८. I८e. 2. 1. 1. ३५. Ide. 2. ना. 1 २०. Idea. 2. 6. 1. २१. Idem.