पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्ड:२४,२५,२६,२७] विद्वन्मनोरञ्जनी १२९ पुरुषे राजायमितिवदौपचारिकमप्रमितभेदयोरैक्यस्यौपचारिकत्वानुपपत्तेः । नापि विपर्ययः संशयो वात्र सम्भवति श्रुतेः स्वतःप्रामाण्यात् । तस्मात्तत्त्व- मस्यादिवाक्यमखण्डार्थनिष्ठमकार्यकारणद्रव्यमात्रनिष्ठत्वे सति समानाधिक रणवाक्यत्वात्सोऽयं देवदत्त इति वाक्यवदिति । तदेवं पदयोरखण्डार्थ निष्ठत्वेन सामानाधिकरण्यं वाच्यार्थांशे विरोधाद्विना लक्षणां न सङ्गच्छत इयुक्तम् ॥ २४ ॥ तत्र भागलक्षणामेव परिशेषयितुं लक्षणान्तरं व्युदस्यति-अत्रेत्यादिना । घोष आभीरनिवासः। कुत इत्यपेक्षायां गङ्गापदे जहल्लक्षणा सम्भवति वाच्या र्थस्य तत्राशेषस्यानन्वयेन परित्याज्यत्वादित्याह-तत्र गङ्गाघोषयोरिति । प्रकृते वाच्यार्थस्याशेषपरित्यागायोगान्न जहल्लक्षणा सङ्गच्छत इत्याह--अत्र त्विति । ननु विशेषणांशत्यागेऽपि विशेषणाभावे विशिष्टाभावन्यायेन विशि- ष्ठस्वार्थपरित्यागाज्जहल्लक्षणैव तत्वम्पदयोरपि गङ्गापदवत्स्यादित्याशङ्कय वैष म्येण प्रत्याचष्टे--न चेति । यथा पदादेव वाक्यार्थान्वयिपदार्थप्रतीतौ लक्ष णावैयर्थ्य तथा विशेष्यांशपरित्यागेऽपि लक्षणावैयर्थ्य तत्त्वम्पदार्थातिरिक्तस्य तत्सम्बन्धिनो वाक्यार्थान्वयिनोऽर्थस्याप्रसिद्धेरिति भावः ॥ २५ ॥ अजहलत्स्वार्थामप्यत्र व्युदस्यति--अत्र शोण इति । शोणपदे स्ववाच्य शोणगुणापरित्यागेन तदाधारलक्षणावत्तत्पदे त्वम्पदे च स्ववाच्यापरित्यागेन तत्प्तम्बन्धिनो यस्यकस्यचिदनिर्दिष्टविशेषस्यार्थान्तरस्य प्रतीत्यै लक्षणाङ्गी करणेऽपि वाच्यार्थयोर्विरोधस्यापरिहारान्नाजहल्लक्षणाप्यत्र युज्यत इत्यर्थः । प्रकारान्तरेणाजहल्लक्षणामुट्य निराचष्टे--न चेति । सकृच्छुतस्यैकस्य पदस्य युगपदुभयलक्षकत्वासम्भवादित्यर्थः । अत्रापि पूर्वोक्तं दूषणं प्रसञ्जयति—पदा- न्तरेणेति । २६ ॥ परिशेषाद्भागलक्षणमन्तरेण नाखण्डवाक्यार्थसिध्धिरतस्तयैव लक्षणयैकार्थप र्यवसायित्वेन पदयोः सामानाधिकरण्यमित्युपसंहरति--तस्मादिति । सोऽय मिति पदद्वयं वाक्यशब्दार्थो देवदत्तपदस्य सामानाधिकरण्यसिध्धैक्यस्प- ष्टीकरणार्थत्वाल्लवक्षणाविचरानुपयोगात् । यद्यपि पदधर्मो लक्षणा तथाप्य भिहितान्वयमतवत्पदार्थस्यापि लक्षकत्वमभ्युपगम्य पदार्थों वेत्युक्तम् । अन्य- -त्समानम् ॥ अत्र केचिदाहुः-पदद्वये लक्षणानुपपन्ना । सोऽयं देवदत्त इत्युक्ते सशब्दे नतीतदेशकालपरित्यागेन लक्षिते देवदत्तस्वरूपे वर्तमानदेशकालवैशिष्टय- मयम्पदेन प्रतिपाद्यते तथा च पूर्वोतरदेवदत्तस्वरूपाभेदसिद्धेरिति । तदयुक्तम् । १. See Notes. २. Ditto. ३. ‘सिद्धिरिति. P. only.