पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

खण्डः २० ] विद्वन्मनोरजनी १३१ , 3A 6 939 ० ७ 9 ११ <क्षेत्रज्ञं चापि मt विद्धि ......... *, <अहमात्मा गुडाकेश सर्वभूताशयस्थितः" ", ‘‘ममैवांशो जीवलोके जीवभूतः सनातनः” ॥ इत्यादिस्मृतिभ्यश्च। संसारित्वावस्थायामेव तस्योपाधिनिबन्धनं परिच्छिन्नपरि माणम् । तच्च यथोपाध्यनुरूपत्वादनियतम् । तथा च दर्शयति श्रुतिः अङ्गुष्ठमात्रो रवितुल्यरूपः ”, ‘‘आराग्रमात्रो ह्यवरोऽपि दृष्ट” , बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः. 'नैव स्त्री न पुमानेष नैव चायं नपुंसकः । यद्यच्छरीरमादत्ते तेन तेन स युज्यते’’ ॥ इत्यादिवचनैः । ‘स च प्रतिशरीरमभिज्ञ एव, ‘एको देवो बहुधा सन्निविष्टः”, ‘‘एकं सद्विप्रा बहुधा वदन्ति’ ,‘‘एकं सन्तं बहुधा कल्पयन्ति , ‘‘त्वमेकोऽसि बहुतनुप्रविष्टः , ‘इन्द्रस्यात्मानं शतधा चरन्तम्’ , ‘‘एकः सन्बहुधा विचारः” इत्यादिश्रुतिशतेभ्यः। तस्माद्देहेन्द्रियप्राणमनोबुध्ध्यव्याकृत विलक्षणस्तत्साक्षी चिद्धातुः संदूपः प्रत्यगामेति निश्चितोऽर्थः । अनुभवप्राबल्यं दर्शयति-अहमिति । “‘तं न' पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति” इत्युपक्रम्य, प्राणाद्यात्मविज्ञानमकृत्स्न विषयता दोषेण निन्दित्वान्ते तु ‘आत्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति" इति कृत्त्स्न्नात्मस्वभावं वेदितव्यं निर्दिश्य ‘तदेतत्पदनीयस्य सर्वस्य यद् यमात्मा” इति तदतिरिक्तस्य ज्ञातव्यस्यानचशेषं दर्शयन्ती श्रुतिस्तद्वि ज्ञानवत् एव विद्वत्तां सूचयति । तथोत्तरत्रापि ‘‘तर्दाहुर्यद्द्ब्रह्मविधया सर्व भविष्यन्तों मनुष्या मन्यन्ते किमु तद्ब्रह्मावेत्’’ इत्याक्षिप्य तदात्मान मेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्” इति च विद्वदनुभवत्वं ब्रह्मात्म ज्ञानस्य दर्शयति । अत इतोऽर्वाक्षु देशेषु प्रत्यगात्मत्वाभिमानो भ्रान्तिरिति भावः । प्रत्यगात्मविषयाध्यारोपमुपसंहरति---अत इति । वेदान्तविद्वदनु १४ १ € १. Gied xiii. 2. २. Idema. ४. 20. ३. Iden2. xv. ४. S':bef. 5. 8. ५. Iderma. ६. Item. 5. 9.. ७. Iden. 5. 10. ८. Untrace- able. ९. . 4. 3. 14. 1. १०. R%, 1. 164. 49. ११. Ideo. 10. 114. 5. १२. १. 4१. 3. 14. 3. See Notes. १३. I८3. 11. 5. १४. Id. 3. 11. 1. See Notes. १५, १६, १७. BK1. 4. ग. १८. Iden1. 4, 9. १९. Ide. 1. 4, 10. 11 ,