९० वेदान्तसारटीका [ खण्डः ६, ७ ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ” ॥, <नाहं प्रकाशः सर्वस्य योगमायासमावृतः” । इत्यादिस्मृतिः । प्रत्यगात्मचैतन्यस्य ब्रह्मणो नित्यप्राप्तत्वेन स्वप्रकाशत्वेन चास्ति प्रकाशत इति व्यवहारपुष्कलकारणे सति नास्ति न प्रकाशत इति तद्विपरीतव्यवहारस्यात्मन्यावरणमन्तरेणानुपपत्तिः श्रोतव्य'’ इत्यादि विधि नात्मयाथात्म्यज्ञानाय श्रवणादिविधानानुपपत्तिश्चेत्यर्थापत्तिद्वयं चकारेण समुच्चीयते ॥ ६ ॥ ननु ‘‘अजामेकां , ‘इन्द्रो मायाभिः” इति श्रुतिभ्य एकत्वनेकत्वयोर- ‘ज्ञाने विप्रतिपत्तौ कः समाधिरति विवक्षायामाह--इदमिति । व्यष्टिर्विशेषः समष्टिः सामान्यम् । व्यवह्रियते श्रुत्यादिष्विति शेषः । अयं भावः । यो यदनुरक्तबुद्धिविषयो नियतः स तदात्मको यथा मृदनुरक्तबुद्धिविषयो घटो मृदात्मको दृष्ट: । तथा सामान्यानुरक्तबुद्धिविषया विशेषाः सामा न्यात्मका इतिं युक्तम् । सामान्यविशेषयोरत्यन्तभेदे गवाश्ववत्सामान्य विशेषभावानुपपत्तेः । भेदाभेदौ त्वेकस्मिन्नप्रामाणिकौ वस्तुनो द्वैरूप्या नुपपत्तेः । अभेदपक्षे तु कयाचिद्भेदकल्पनया सामान्यविशेषव्यवहारोपपत्तेः समुद्रतरङ्गादिवज्जलतरङ्गचन्द्रादिवद्वा । तथा चाज्ञानस्यैकस्यैव सतः- सामान्यविशेषभावेनैकानेकत्वव्यवहारः श्रौतो न विरुध्यत इति । एतदेव दृष्टान्तैरुपपादयितुमुपक्रमते--तथाहीत्यादिना । ‘‘पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्” ”, “^रूपं रूप प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय” इति मन्त्रद्वयानुसारेण ज्ञान तत्कार्यावच्छिन्नोऽज्ञानतत्कार्यंप्रतिबिम्बितो वा चिदात्मा जीवेश्वरभावं भजत इति मतद्वयमुपरुध्य दृष्टान्तद्वयोपादानमिति सर्वत्र वनवृक्षजलाशयजलकीर्त- -नाभिप्रायो बोद्धव्यः । नानात्वेन इत्यादेरयमर्थः । अज्ञानं किं ब्रह्मनिष्ठमुत जीवनिष्ठम् । नाद्यो नित्यशुद्धत्वादिस्वभावविरोधात् । न द्वितीयोऽन्योन्याश्रयात् । तथा हि । अज्ञानमित्युक्ते कस्य किंविषयमित्याश्रय विषयसापेक्षताप्रतीतेर्न निराश्रयमज्ञानमस्तीति प्रतिपत्तुं शक्यम् । तस्य च जीवाश्रयत्वे जीव भावस्याप्यज्ञानाधीनत्वसिद्धे जीवभावेऽज्ञानस्य साश्रयत्वसिद्धिस्तत्सिद्धौ। च जीवत्वसिद्धिरिति कथं नान्योन्याश्रयः । नन्वनादित्वादज्ञानजीवभाव १. Gy%. P. 15. २. Idem vii. 25. ३. Brb. 2. 4. 5. हैं. S/«e%. i. 5. ५. Rigved¢ 6. 47. 18. ६. Brk. 2. 5. 18. ७. Rigved 6. 47. 18, and Brih. 2. 5. 19.
पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०४
दिखावट