पृष्ठम्:वेदान्तसारः (सदानन्दः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ वेदान्तसारटीका [ व्रण्डः ६ ‘‘प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोक” इत्यन्तेन प्रज्ञाशब्दवाच्य प्रत्यक्चैतन्यव्याप्तस्येव चक्षुरादिद्वारकबुद्धिपरिणामस्य सङ्कीर्तनात् । साङ्ख्य पक्षमाश्रित्यानौपचारिकत्वे स्वीक्रियमाणेऽपि न वृत्त्यभावोऽज्ञानं वृत्त्यभाव शब्देन वृत्त्युपादानबुद्धिस्वरूपावस्थानमात्रस्यैवाभिलाषात् । अतः पक्षान्तरं परिशिष्यते । तत्रेदं वक्तव्यम् । ज्ञानविशेषाभाव एवाज्ञानं ज्ञानसामान्या भावोऽपि वेति । नाद्यो मूढोऽहं न किञ्चिज्जानामीत्यनुलिखितविषय- विशेषस्याप्यज्ञानस्यानुभवात् । न च तत्रापि विषयविशेषपर्यवसायित्वं करुप्यत इति वाच्यं विनानुपपतिं सामान्यबुद्धेर्विशेषालम्बनत्वे सामान्य बुद्धिविलोपसङ्ग्रहात् । तथा च घटवत्यपि भूतले घटसामान्यनिषेधप्रसङ्गः सुषुप्त्यभावप्रसङ्गश्च स्यात् । तस्माज्ज्ञानसामान्याभावोऽहमज्ञ इत्युलिख्यत इति वाच्यम् । तत्र चाभावज्ञानस्य धर्मिप्रतियोगिज्ञानसापेक्षस्यात्मनि धर्मिणि ज्ञाने च प्रतियोगिनि विज्ञायमाने तस्मिन्नेवात्मनि कथं ज्ञाना भावग्रहोऽभावप्रतियोगिनो ज्ञानस्य तत्र वर्तमानत्वात् । तयोरविज्ञाय- मानयोरपि कथं तत्राभावग्रहः कारणाभावात् । षष्टप्रमाणपक्षेऽप्ययं न्यय ऊहनीयः। नन्वनुपपत्तौ सत्यां सामान्यबुद्धेरपि विशेषालम्बनत्वं कल्प्यते । यथा घटवत्यपि भूतले घटो नास्तीति बुद्धेर्विवक्षितघटाभावविषयत्वं तद्व दिहापि सामान्याभावस्य यत्किञ्चिप्रतियोगिसत्त्वविरोधादात्मनि विज्ञायमाने तस्मिन्ननुपपत्तेर्न किञ्चिज्जानामीति बुद्धिर्ज्ञानविशेषाभावविषयत्वं कल्प्यत इति चेन्न । अनयैवानुपपत्त्या भावान्तरविषयवत्वस्यैव कल्पनीयत्वात् । न हि मूढोऽहं सामान्यं किञ्चिदपि न जानामीत्यनुभवे किञ्चिद्विपया न्तरमवशिष्यते यज्ज्ञानाभावविषयत्वमस्य कल्प्येत । यथास्मिन् भूतले न कोऽपि घटोऽस्तीति प्रत्यये घट विशेषस्यानवशेषस्तद्वत् । नन्वप्रसिद्ध भावान्तरकल्पनाद्वरं प्रसिद्धस्याभावत्येव यथाकथञ्चिदप्यज्ञानबुद्धेर्विषयत्व- कल्पनमिति चेन्न । अत्यन्तमप्रसिद्ध्यभावात्। ‘‘देवात्मशक्तिं स्वगुणैर्नि गूढां”, “‘मायां तु प्रकृतिं विद्यात्’ इति च श्रुतिवाक्ययोर्गुणवत्त्वेनोपपद्यमान- जगदुपादानत्वेन च प्रसिद्धत्वात् । तस्मान्नाभावो ज्ञानं किन्तु भावा- न्तरमेवेति ॥ ननु भावत्वमप्यज्ञानस्यानुपपन्नमनादेस्तस्य भावरूपत्वे चिदात्मवद निवृत्तिप्रसङ्गादनिर्मोक्षापत्तेरित्यत आह-यत्किञ्चिदिति । अयमर्थः । नास्माभिरज्ञानस्य भावत्वं परमार्थसत्त्वाभिप्रायेणोच्यते किन्त्वभाववै p¢l«८dhi. See Notog. १. Abbreq!6 5. 1-8. २. Namely ३. Seet, i. ३. ४. Idem. iv. 10.