सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः.djvu/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxxii

तत्वं भगवच्छरीरत्वं " यो विज्ञाने तिष्ठन्" इत्यादिना जीवानां भगवदधिष्ठितत्वं भगवच्छरीरत्वं चोक्तम् । परमात्मनः पृथिव्यादिप्ववस्थानं च तत्तदन्तरात्मतयेति दर्शयति---"पृथिव्या अन्तरः विज्ञानादन्तरः" इति च । अन्तरो यमयतीत्यनेन शरीरलक्षणं सर्वानुगतमुक्तं भवति । अनेन "यस्य चेतनस्य यत् द्रव्यं सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यं तच्छेषतैकस्वरूपं च तत् तस्य शरीरं इति शरीरलक्षणं सिध्यति । चितामचितां चेश्वरेण सर्वात्मना स्वार्थे नियन्तुं धारयितुं च शक्यत्वात् तच्छेषतैकस्वरूपत्वाच्चेश्वरशरीरत्वमव्याहतम् । यः पृथिव्याम् स्थितः तदन्तरात्मतया तदन्तर्गतः तदवेद्यः तच्छरीरकश्च सन् तन्नियमनं करोति, एषोऽन्तर्यामी ते अमृत आत्मा, निरूपाधिकामृतत्वशाली आत्मेत्यर्थः । अत्र ते आत्मेति व्यतिरेेकषष्ठीनिर्देशात् अन्तर्यामिणो जीवात् व्यतिरेकः सिद्धः। *शिलापुत्रकस्य शरीरम्* इतिवदयं निर्देश औपचारिक इति तु न शङ्कनीयम्, अपवादकाभावे व्यतिरेकपरषष्ठिनिर्देशस्यौपचारिकत्वकल्पनायोगात् । अभेदे षष्ठि तु न शाब्दिकसंमता । किंचामृतत्वविशेषणादपि व्यतिरेकः सिध्यति । अन्तर्यामि ते आत्मेत्युक्ते आत्मशब्दस्य स्वरूपवाचित्वशङ्कया जीवव्यावृत्तिर्न स्यादिति हि अमृत इत्युक्तम् । एवं "यो विज्ञाने" इत्यादावपि भाव्यम् । अत्रैवान्तर्यामिब्राह्मणे "यो विज्ञाने तिष्ठन्" इति काण्वपाठगतविज्ञानशब्दस्य स्थाने माध्यंदिनशाखिनः " य आत्मनि तिष्ठन्" इति पठन्ति । अतोऽत्र विज्ञानशब्दो जीवात्मपर इति विज्ञायते। विज्ञानातीति विज्ञानमिति नन्द्यादित्वात् कर्तरि ल्युः । अथवा स्वप्रकाशत्वात् जीवस्यापि विज्ञानत्वव्यपदेशः ।

तथा- -- "यः पृथिवीमन्तरे संचरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारम्भ्य "योऽक्षरमन्तरे संचरन् यस्याक्षरं शरीरं यमक्षरं न वेद" इत्यन्यत्रापि जीवस्य परमात्मशरीरत्वं श्रुतम् ।