सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः.djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxviii

"संयुक्तमेतत् क्षरमक्षरं च व्यक्ताक्यक्तं भरते विश्वमीशः।
अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशैः॥"

इति। क्षरमक्षरमीशश्चेति तत्त्वत्रयम् । अत्र क्षरणशीलत्वात् नामरूपविभागार्हस्थूलात्मना परिणामित्वाच्च क्षरमिति व्यक्तमिति चाचित्त्तत्त्वमुच्यते।अक्षरणशीलत्वात् सूक्ष्मरूपत्वाच्चाव्यक्तमिति चित्तत्वं जीववर्ग उच्यते । ईशःपरमात्मा व्यक्तरूपं क्षरमचिद्वर्गम् अव्यक्तमक्षरं चिद्वर्गे च संयुक्तं परस्परमिलितं बिभर्ति ; केवलमचिद्वर्गे चिद्वर्गे तथा परस्परमिलितं भूतवर्गे च बिभर्तीत्यर्थः। यथोक्तम्‌---- "भर्ता सन् भ्रियमाणो बिभर्ति" "यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः" इति । अत्र हि लोकत्रयशब्देनाचेतनं तासंसृष्टश्चेतनो मुक्तश्र्चेति त्रयमुच्यते । तेषां भरणं च तदन्तरात्मतया तत्स्वरूपस्थितिप्रवृत्तिनिर्वाहकत्वम् । तथा भवन्नपि स न बध्यते । अनीशो जीवस्तु कर्मफलभोक्तृत्वात् बध्यते। परमात्मनस्तु अवाप्तसमस्तकामतया कर्मफलस्पृहाभावात् कर्मलेपो नास्ति । अतो न बन्धप्रसक्तिः। यथोक्तम्--- "न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा" इति । देवमीशमित्थं चिदचिद्विलक्षणत्वेन यो जानाति स सर्वपाशैः प्रमुच्यते; सर्वबन्धान्मुक्तो भवतीति चिदचिदीश्वराणां वैलक्षण्यज्ञानस्य मोक्षहेतुत्वमुच्यते । तथा---

"ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता ।
अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ॥"

पूर्ववाक्योक्तयोर्द्वयोः परजीवयोर्मध्ये एक ईशः ज्ञः सर्वज्ञः नियन्ता च । अपरश्चाज्ञोऽनीशो नियाम्यश्च । उत्पत्तिराहित्यं तूभयोः समानम् । ईशनीशाविति सवर्णदीर्घाभावश्छान्दसः। ईशानीशावित्यर्थः। अथवा ईट् चानीत् च ईशनीशाविति जश्त्वाभावश्छान्दसः । अचित्तत्त्वं प्रपञ्च्यते-- अजा ह्येकेति । भोक्तुर्जीवस्य भोगरूपप्रयोजनवती अजा उत्पत्तिरहिता एका