सामग्री पर जाएँ

पृष्ठम्:वेदान्तसारः.djvu/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

xxiv

निहितं गुहायाम्" "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा " "नित्यं विभुं सर्वगतम्" " अहमात्मा गुडाकेश सर्वभूताशयस्थितः" "यथा सर्वगतो विष्णुः" " सर्वगत्वादनन्तस्य " इत्यादिभिः प्रमाणशतैः सर्वान्तरात्मतया सर्वगततया चोक्तस्य तस्य दिव्यमङ्गलविग्रहविशिष्टतया नित्यविभूतिमत्तया च स्थानविशेषेऽवस्थितिं ब्रूमः । " क्षयन्तमस्य रजसः प्रराके" "तद्विष्णोः परमं पदम्" इत्याद्याः श्रुतयो हि सर्वगस्यापि ब्रह्मणः स्थानविशेषावस्थितिं प्रतिपादयन्ति ।

एवं च प्राप्तिर्नामानुभवरूपा । प्राप्यं च परं ब्रह्मेति लभ्यते । स उपासको ब्रह्मणा सह सर्वान् कामानश्नुत इत्यन्वयः । अत्र ब्रह्मणा सहेति " सहयुक्तेऽप्रधाने " इत्यनुशासनात् सहयोगे तृतीया । सा च 'पयसा सह ओदनं भुङ्क्ते' इत्यत्रेव भोग्यसाहित्यपरा । ब्रह्मणा सहितान्सर्वान् कामान् समश्नुत इत्यर्थः । न तु *पुत्रेण सहागतः पिता* इत्यत्रेव ब्रह्मणा सहितः सन् कामान् अश्नुत इति भोक्तृसाहित्यपरा, तथा सति ब्रह्मणोऽप्राधान्यप्रसङ्गात् । यद्यपि भोग्यसाहित्यपरत्वेऽपि ब्रह्मणोऽप्रधान्यं समानमिति *यश्चोभयोः समो दोषः* इतिन्यायावसरः, तथापि तदप्राध्यान्यं तदीयगुणानां भोग्यतातिशयं प्रतिपादयत् ब्रह्मणोऽतिशये पर्यवस्तीति न दोषाय, प्रत्युत गुणायैव भवति । रत्नानां तारल्यातिशयप्रतिपादनं हि रत्नातिशये पर्यवस्यति । यथोक्तमभियुक्तैः -- "श्रियं त्वत्तोऽप्युञ्चैर्वयमिह भणामः श्रृणुतराम् " इति । अथवा दहरविद्यायामिवात्रापि गुणानां भोग्यत्वं वक्तुं सहशब्दः । अत्र मुक्तौ ब्रह्मगुणानां भोग्यत्वप्रतिपादनेनोपायभूतमुपासनमपि सगुणस्य ब्रह्मण एवेति चाध्यवसीयते, तत्क्रतुन्यायात् । यदि निर्विशेषं ब्रह्म, तस्य प्रत्यगभिन्नतयोपासनं च प्रतिपिपादयिषितं स्यात्, तदा श्रुतौ प्रत्यगात्मनस्तद्गुणाभावस्य च भोग्यत्ववचनं स्यात्, न तु ब्रह्मणस्तद्गुणानां चेति विभावनीयम् ।