नियमेन सहोपलभ्यमानयोः कथं भेदसिद्धिरिति चोद्यं परकीयानुभव प्रदर्शनेंन परिहरति, जातीति ।
जातिव्यक्ती देहिदेहौ गुणद्रव्ये यथा पृथक् । |
यथा जातिव्यक्ती जातिर्नित्यमेकमनेकानुगतं सामान्यमिति लक्षणलक्षिता। यथाऽनेकेषु गोषु विद्यमानो गोत्वधर्मः, व्यक्तिः धर्मी गौ, देहिदेहौ । देही जीवः, तस्याश्रयो देहः, गुणद्रव्ये गुणो नीलपीतादि:, द्रव्यं घटादिकं; यथा पृथक् भिन्नतया भासते । वियत्सतोराकाशस्य धर्मितया प्रतीयमानस्य सद्वस्तुनश्च तथैव पार्थक्यमस्तु । नित्यसंबद्धानामेवं पार्थक्ये को विस्मयः किमाश्चर्यम् ॥ ७१ ॥
यद्यपि भेदो बुध्यते। तथाऽपि सा बुद्धिर्निश्चयात्मिकेति कथं सिध्यति इति शंकते, बुद्धोपीति ।
बुद्धोऽपि भेदो नो चित्ते निरूढिं याति चेत्तदा। |
आकाशस्रतोर्द्भेद उक्तरीत्या बुद्धोऽपि सहेतुकमवगतोऽपि चित्ते निरूढिं दार्ढय नो याति नाप्नोतीति चेत् तन्निश्चितत्वाभावे को हेतुरिति विकल्प्यते । अनैकाग्र्यादिति । अस्य रूढ्यभावः कथं भवेत् अनैकाग्र्यात् एकमग्रं विषयप्रवणता यस्य तदेकाग्रं तस्य भाव ऐकाग्र्यम् तन्नभवतीत्यनैकाग्र्यम् । तस्माच्चितविक्षेपादुत संशयाद्विश्वासाभावात् । वद ॥ ७२ ॥
द्वयोरपि प्रतीकारमाह, अप्रमत्त इति ।
अप्रमत्तो भव ध्यानादाद्येऽन्यस्मिन् विवेचनम्। |
आद्ये अनैकाग्र्यपक्षे ध्यानादप्रमत्तो भव चितैकाग्र्यम् संपादय । अन्यस्मिन् पक्षे संशयग्रस्तत्वे प्रमाणयुक्तिभ्यां प्रमाणं “ सदेव सोम्य इदमग्र