पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
५९
कल्याणपीयूषव्याख्यासमेता

 नन्वाकाश आसीदित्यत्र सत्ताधर्मविशिष्ट आकाश इत्यर्थे सदाकाशयोर्धर्मधर्मिभावापत्तेरसंगतिरेव स्यात् । आकाशस्य सत्कार्यत्वे सति कथं कारणस्य कार्यधर्मत्वमित्याशंक्याह, येति ।

या शक्तिः कल्पयेद्व्योम सा सद्व्योम्नोरभिन्नताम् ।
आपाद्य धर्मधर्मित्वं व्युत्ययेनावकल्पयेत् ॥ ६३॥

 या मायाशक्तिर्व्योम कल्पयेत् सत्यारोपयति सैव शक्तिः सद्व्योम्नोंरभिन्नतां तादात्म्यमापाद्य प्रथमं संपाद्य तयोरेवानन्तरं वैपरीत्येन धर्मधर्मित्वं धर्मस्याकाशस्य धर्मिभावं चावकल्पयेत्। अत आकाशस्य सद्धर्मित्वमवगम्यये ॥६३॥

 निरुक्तव्यत्ययमेव प्रपञ्चयति, सत इति ।

सतो व्योमत्वमापन्नं व्योम्नः सत्तां तु लौकिकाः ।
तार्किकाश्चावगच्छन्ति मायाया उचितं हि तत् ॥६४॥

 मृदो घटरूपत्वमिव सतो व्योमत्वमापन्नम्। देशपरिच्छिन्नत्वशब्दगुण कत्वादिवियद्धर्मा विकाराः सद्वस्तुनि माययाऽरोप्यन्ते । तथापि लौकिकाः शास्त्रज्ञानशून्याः प्रतीतिमात्रशरणास्तार्किकाश्च व्योम्नः सत्तामवगच्छन्ति । तद्विपरीतकल्पना मायाया उचितैव हि । धर्मधर्मिणोर्व्यत्ययेन परिग्रहणं केवलमायाकृतव्यामोहफलमित्यलम् ॥ ६४ ॥

 विपरीतप्रतीतेर्लौकिकोपपत्तिमाह, यदिति ।

यद्यथा वर्तते तस्य तथात्वं भाति मानतः।
अन्यथात्वं भ्रमेणेति न्यायोऽयं सार्वलौकिकः ॥६५॥

 यद्वस्तु यथा वर्तते तस्य तथात्वं तथाप्रतीयमानत्वं मानतः प्रत्यक्षादिप्रमाणतो भाति सिध्यति । तस्मिन् तद्बुद्धिः प्रमा। अन्यथात्वं अन्यधर्मवत्वं भ्रमेणेत्ययं न्यायः अतस्मिन् तद्बुद्धिर्भ्रम इति न्यायः सार्वलौकिकः- सार्वजनीनः सर्वसम्मत इत्यर्थः ॥ ६५ ॥