भगवत्पूज्यपादाश्च शुष्कतर्कपटूनमून् । |
भगवत्पूज्यपादाश्च शुष्कतर्कपटून् शुष्कः प्रमाणविधुरश्चासौ तर्को युक्तिवादः तस्मिन् पटून् दक्षानमून् माध्यमिकान् बौद्धनामवान्तरशाखीयान् अचिन्त्ये मनसोऽगोचरे सदात्मनि सत्स्वरूपे ह्यात्मनि भ्रान्तान् विप्रतिपन्नानाहुः। शिष्यैरवश्यं कर्तव्ययोर्योगाचारयोः प्रथमस्याकरणाद्द्वितीयस्याङ्गीकरणान्माध्यमिका इति प्रसिद्धिः॥३०॥
पूज्यपादवाक्यं पठति अनादृत्येति ।
अनादृत्य श्रुतिं मौर्ख्यादिमे बौद्धास्तमस्विनः। |
तमस्विनः तमः अयथार्थज्ञानमेषामस्तीति तमस्विन इमे बौद्धाः मौर्ख्यात् श्रुतिं ‘सदेव सोम्येदमग्र आसी"दित्यादि (छां-६.२.१.) श्रुतिमनादृत्य अप्रमाणीकृत्य अनुमानैकचक्षुषोऽनुमानमेव मुख्यप्रमाणत्वेनांगीकुर्वन्त इति हेतुगर्भविशेषणम्। असच्छब्दस्य शून्यार्थतां प्रकल्प्य निरात्मत्वमात्माभावमेव आपेदिरे अवाप्नुवन्॥३१॥
शून्यवादनिरासः ।
श्लोकद्वयेन तावदिदानीमसद्वादं विकल्प्य सोदाहरणं निराकरोति, शून्यमिति ।
शून्यमासीदितिब्रूषे सद्योगं वा सदात्मताम्। |
शून्यमासीदिति वाक्येन शून्यस्य सद्योगं सत्तायोगं संबंधं आहोस्वि त्सदात्मतां सत आत्मतां तादात्म्यं ब्रूषे ब्रवीषीति शून्यवादिनं प्रति प्रश्नः।