३
सौत्रान्तिकास्तु। विज्ञानातिरिक्तबाह्यशून्यत्ववादो न युक्तः । प्रमाणाभावात् । ग्राह्यग्राहकयोर्भेदस्य लोके प्रसिद्धत्वात् । ज्ञानस्यांतर्मुखतया ज्ञेयस्य
बहिर्मुखतया च भेदेन प्रतिभासमानत्वात् । नीलाद्यर्थस्य ज्ञानरूपत्वे तु तस्यापि
ज्ञानवदहमिति प्रतिभासस्स्यात् । अतो बाह्यार्थस्य क्षणिकत्वेनाप्रत्यक्षत्वेऽपि तदाकारसमर्पकत्वेनानुमेयत्वं सिद्धम् । एवं बाह्यघटादिवदान्तरसुखादयोऽपि ज्ञानाद्भिन्नतया विषया भवन्ति । एवं चैषां मते रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञिकं स्कंधपंचकं तत्त्वम् । तत्र रूप्यन्ते एभिरिति व्युत्पत्त्या रूप्यन्ते एते इति व्युत्पत्त्या च
सविषयाणींद्रियाणि रूपस्कंधः। आलयविज्ञानप्रवृत्तिविज्ञानधारा विज्ञानस्कंधः ।
उक्तविज्ञानद्वयजन्यस्सुखदुःखदिप्रत्ययप्रवाहो वेदनास्कंधः । तत्तच्छब्दोल्लेखि-प्रत्ययप्रवाहस्संज्ञास्कंधः । वेदनास्कंधनिमित्तका रागद्वेषादयो मदमानादयः धर्माधर्मौर्मौ च
संस्कारस्कंधः । एतत्स्कंधपंचकातिरिक्तं नान्यदात्मवस्त्वस्ति । तदिदं सर्वं दुःखायतनं दुःखसाधनं चेति भावयेत् । तदेतदाह बुद्धः दुःखं दुःखमिति । तन्निरोधनाय
तत्त्वज्ञानं संपादयेत् । तत्वानि च दुःखसमुदायनिरोधमार्गाश्चत्वारः। दुःखं
प्रसिद्धम् । समुदायो दुःखकारणम् । स च प्रत्ययोपनिबंघनो हेतूपनिबंधनश्चेति
द्विविधः । तन्निरोधस्तदनंतरं विमलज्ञानोदयेन मुक्तिः । तन्निरोधोपायो मार्गः ।
स च तत्त्वज्ञानम् । तच्च पूवोंक्तभावनाबलाद्भवतीति वदन्ति ।
वैभाषिकाः पुनः । ग्राह्यनुमेयत्ववादे प्रत्यक्षसिद्धस्य कस्याप्यभावे व्याप्तिग्रहे।
दृष्टान्तासंभवेन तदसंभवादनुमानमेव न प्रसरेत् । अनुभवविरोधश्च । ततश्चथों
द्विविधः । ग्राह्योऽध्यवसेयश्चेति । तत्र ग्रहणं निर्विकल्पकरूपम् प्रमाणम् ।
कल्पनारहितत्वात् । अध्यवसायस्सविकल्पकरूपोऽप्रमाणम् । कल्पनारूपत्वात् ।
निर्विकल्पकज्ञानविषयं वस्तु सत्यम् । सविकल्पकज्ञानविषये धर्मांशः कल्पितः ।
कल्पितत्वादेव स धर्मो जातिरिति केचन । अन्यापोहरूप इति केचन विवदमाना
दृश्यन्ते । सविकल्पस्य भ्रमत्वेऽपि मणिप्रभाविषयमणिविकल्पन्यायेन अर्थप्राप्तिसंवादावुपपद्यते । सर्वमन्यत् सौत्रान्तिकवदित्याहुः ।
अर्हताः पुनः । क्षणिकविज्ञानवादे लौकिकफलसाधनसंपादनमैहिकं विफलमेव स्यात् एककृतमन्येनानुभूयत इति न कश्चन सचेता अनुमन्यते । पूर्वकृतमनु-