पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७८
[ब्रह्मानंदे विषयानंद
पञ्चदशी

प्रीयाद्हरिर्हरोऽनेन ब्रह्मानन्देन सर्वदा ।
पायाच्च प्राणिनः सर्वान् स्वाश्रितान् शुद्धमानसान् ॥३५॥

 हरिः हरः हरिहरादिस्वरूपेण प्रतीयमानः परमेश्वरः अनेन ब्रह्मानन्देन प्रीयात् प्रीतेः स्वाश्रितान् शुद्धमानसान् सर्वान् प्राणिनः पायाश्च । अत्र हरिहर इति केचित्पाठं कल्पयन्ति । बुक्कभूपालपुत्रो हरिहरो विद्यारण्यचरणैर्विजयनगर साम्राज्ये क्री. श. १३६६ संवत्सरे पट्टाभिषिक्त इति ।

.. ... .. विद्यतीर्थमहेश्वरम् ।
तत्कक्षेण तद् दधतो बुक्कभूपतेः।
अभूद्धरिहरो राजा क्षीराब्धेरिव चन्द्रमाः।

 इत्यनेन ज्ञायते तस्य ज्ञानावाप्तिनिमित्ताशीःपूर्वकोऽयं श्लोकः । यद्वा हरिहरादिविविधदेवतासु तेषामभेदबुद्धिसूचकोऽयमिति ज्ञेयम् ॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तवासिनात्रि

गोत्रसमुद्धृतेन लिन सोमयाजिना विरचितेयं पञ्चदश्यां

ब्रह्मानंदे विषयानंदाख्यप्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति ब्रह्मानंदे विषयानंदाख्यप्रकरणम् ।

ॐ तत्सत् ।

ब्रह्मार्पणं ब्रह्महवि
र्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रहमैव तेन गन्तव्यं
ब्रह्मकर्मसमाधिना॥

॥ इति पंचदशी समाप्ता ॥