पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५०
[ब्रह्मानंदे अद्वैतानंद
पञ्चदशी

सहस्रशो मनोराज्ये वर्तमाने सदैव तत् ।
सर्वैरुपेक्ष्यते यद्वदुपेक्षा नामरूपयोः ॥ ९५॥

 मनःकल्पितं वस्तुजातमिव नामरूपे निरसनीये इति भावः ॥ ९५॥

 तमेवार्थप्रग्रंचयति, क्षण इति ।

क्षणे क्षणे मनोराज्यं भवत्येवान्यथाऽन्यथा ।
गतं गते पुनर्नास्ति व्यवहारो बहिस्तथा ॥ ९६ ॥

 मनोराज्यं अन्तःसंभावितं मनोरथकल्पितवस्तुजातं क्षणे क्षणे प्रतिक्षणं अन्यथाऽन्यथा भवत्येव । उपद्यते विलीयते च। गतं गतमेव पुनर्नास्ति। बहिव्र्यवहारोऽपि तयैव भवति । जाग्रत्यामव्यतिरिक्तानि वस्तून्युपद्यन्ते विन श्यन्ति चेति भावः ॥ ९६ ॥

 गतं गतं पुनर्नास्तीति पूर्वोक्तं विवृणोति, नेति ।

न बाल्यं यौवने लब्धं यौवनं स्थाविरे तथा ।
मृतः पिता पुनर्नास्ति नाऽऽयात्येव गत दिनम् ॥ ९७

 स्पष्टोऽर्थः । स्थाविरं वार्धक्यं ॥ ९७॥

 लौकिकस्य मनोराज्यादविशेषमाह, मन इति ।

मनोराज्याद्विशेषः कः ? क्षणध्वंसिनि लैौकिके ॥९७॥

 क्षणध्वंसिनि अतिस्वल्पकाले नाशनशीले स्पष्टमन्यत् ॥ ९७ ॥

 एवं यौकिकव्यवहारस्य क्षणभंगुरत्वसाधने प्रयोजनमाह, अत इति ।

अतोऽस्मिन् भासमानेऽपि तत्सत्यत्वधियं त्यजेत् ॥९८॥

 अतः अस्मिन् द्वैते जगति सत्यमिव भासमाने प्रतीयमानेऽपि तत्सत्यत्व धियं तस्य द्वैतस्य सत्यत्वबुद्धिं त्यजेत् ॥ ९८ ॥

 द्वैतसत्यत्वधीपरित्यागे प्रयोजनमाह, उपेक्षित इति ।