पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२६
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

 इयं संसाररचना विचारोज्झितचेतसां विचारेण उज्झितं विहीनं चेतः येषां तेषां विचारविरहितमनस्कानां बालकाख्यायिकेव यथा बालकाख्यायिका निर्विचारणधियो बालस्य निश्चितत्वं गता तथा वास्तवरूषामवस्थितिं गता ॥२७॥

शक्तेः स्वरूपनिरूपणम् ।

 वासिष्ठवचनमुपसंहरन् दशमे श्लोके उपक्रान्तं मायाशक्तिस्वरूपं निरूप यति, इतीति ।

इत्यादिभिरुपाख्यानैर्मायाशक्तेश्च विस्तरम् ।।
वसिष्ठः कथयामास सैव शक्तिर्निरूप्यते ॥ २८ ।।

 या मायाशक्तिर्वसिष्ठेन प्रपंचिता सैव अथो निरूप्यते ।। २८ ॥

 मायाशक्तिः स्वकार्याश्रयाभ्यां विलक्षणेत्याह, कार्येति ।

कार्याश्रयतश्चैषा भवेच्छक्तिर्विलक्षणा ।
स्फोटांगारौ दृश्यमान शक्तिस्तत्रानुमीयते ॥ २९ ॥

 एषा मायाशक्तिः स्वस्य कार्यात् जगतः स्वस्य आश्रयतो ब्रह्मणो विलक्षणा भवति । तत्र दृष्टान्तमाह, स्फोटेति । स्फोटांगारौ दाहकशक्ते: कार्यभूतः स्फोट: तस्या आश्रयो अंगारः, एतौ स्फोटांगारौ प्रत्यक्षतो दृश्यमानौ; शक्तिस्तु अंगारे विद्यमाना स्फोटजनिका शक्तिस्तु प्रत्यक्षतो अंगारे स्फोटे वा न दृश्यते । कि तु कार्यलिंगेनानुमीयते। अतो दाहकत्वशक्तिः स्वकार्याश्रयाभ्यां विलक्षणेति भावः२९

 तथैव मृदादीनां शक्तिरपि तत्कार्याश्रयाभ्यां विलक्षणेत्याह, पृथ्विति ।

पृथुबुध्नोदराकारो घटः कार्योऽत्र मृत्तिका ।
शब्दादिभिः पंचगुणैर्युक्ता शक्तिस्त्वतद्विधा ॥ ३०॥

 पृथुबुध्नोदराकारः स्थूलवर्तुलोदराकारो घटः कार्यः। तत्कारणभूता मृत्तिका शब्दादिभिः पंचगुणैर्युक्ता। तेषामाश्रय इत्यर्थः । “अस्ति भूस्तत्वशून्येत्य"त्र (२-९४) पृथिव्याः पंचगुणात्मकत्वमुक्तं । शक्तिस्तु घटोत्पादनसमर्था मृदाश्रया शक्तिस्तु अतद्विधा उभयसदृशी न। न घटसदृशी पूर्वोक्ताकारशून्य-