पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
५१३
कल्याणपीयूषव्याख्यासमेता

योगो ब्रह्मापरोक्षज्ञानसिद्धये प्रोक्तश्चेत् मुख्यगौणमिथ्यात्मविवेकद्वारा कोशपञ्चक विवेचनेनापि ज्ञानं कि नो जायते । योग इव विवेकोऽपि ज्ञानहेतुरित्यर्थः ।८१।

 तत्र प्रमाणमाह,यदिति ।

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
इति स्मृतं फलैकत्वं योगिनां च विवेकिनाम् ॥ ८२ ।।

 ध्यानदोपे १३४ श्लोके सम्यग्व्याख्यातोऽयं विषयः ॥ ८२॥

 सांख्ययोगयोरेकफलत्वेऽप्यधिकारिभेदेन मार्गभेदोऽपि निर्दिष्ट इत्याह, असाध्येति।

असाध्यः कस्यचिद्योगः कस्यचित् ज्ञाननिश्चयः।
इत्थं विचार्य मार्गौ द्वौ जगाद परमेश्वरः ॥ ८३ ॥

 स्पष्टोऽर्थः ॥ ८३॥

 ननु विशेषायाससाध्यो योगः । तदभावात्सुसाध्यो विवेकः। इत्यायासबाहुल्येन तत्रातिशयो यः कश्चन वाच्यः । इत्याशंक्य विवेकाद्योगस्यातिशयः किमपरोक्षज्ञानजनकत्वात् यद्वा रागद्वेषादिनिवर्तकत्वादाहोस्वित् द्वैतानुपलब्धिकारणत्वादिति विकल्प्योत्तरयति, योग इति ।

योगे कोऽतिशयस्तेऽत्र ज्ञानमुक्तं समं द्वयोः ।
रागद्वेषाद्यभावश्च तुल्यो योगिविवेकिनोः ॥ ८६ ॥

 विवेकादत्र योगे ते अतिशयः कः ? न कोऽपि । अतिशयहेतुत्वेन विकल्पितेष्वाद्यं दूषयति, ज्ञानेति । विवेकयोगयोर्द्वयोः ज्ञानयोगेनेत्यादिनाऽपरोक्षज्ञानलक्षणं फलं सममुक्तम् । द्वितीयं दूषयति, रागेति । योगिविवेकिनोः रागद्वेषाद्यभावश्च तुल्यः समान एव ॥ ८४ ॥

 ननु योगिन इव ज्ञानिनो रागद्वेषाद्यभावः कथं सिध्यतीत्याशंक्याह, नेति ।

न प्रीतिर्विषयेष्वस्ति प्रेयानात्मेति जानतः ।।

65