प्रेमौदासीन्यादिषु व्यक्तीनां नियमो माभूत् । तथापि व्यवहारस्य व्यवस्थितिः व्यवस्थालक्षणात् भवति । किं तक्षणमित्याशंकायामाह, आनुकूश्यं शेषस्य, प्रातिकूल्यं द्वेषस्य, द्वयाभावश्च उदासीनस्य, लक्षणं भवति ॥ ५४॥
आत्मनो निरतिशयप्रेमास्पदत्वकथनम् ।
उक्तिमर्थं संक्षिपति, आत्मेति ।
आत्मा प्रेयान् प्रियः शेषो द्वेषोपेक्षे तदन्ययोः । |
आत्मा प्रत्यगात्मा प्रेयान् निरतिशयप्रेमास्पदः शेषः तद्व्यतिरिक्तः गौणात्मादिः प्रियो भवति । तदन्ययोः व्याघ्रमार्गतृणाद्योः द्वेषोपेक्षे इति लोको व्यवस्थितः लोके व्यवस्था । तच्च याज्ञवल्क्यमतं । "आत्मनस्तु कामाय सर्वं प्रियं भवती"ति ( (बृ. ४-५), यथा प्रतिपादितं तथेति भावः ॥ ५५ ॥
एतदर्थप्रतिपाद्कं पुरुषविधब्राह्मणवाक्यमर्थतः पठति, अन्यत्रेति ।
अन्यत्रापि श्रुतिः प्राह पुत्राद्वित्तात्तथान्यतः । |
अन्यत्रापि “तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्ये"ति (बृ.१.४.८.) पुरुषविधब्राह्मणे पुत्रात् वित्तात्तदान्यतः सर्वस्मात्तदेतदांतरं तत्त्वं प्रेय इतीष्यतामिति श्रुतिः प्राह । पुत्रवित्तादेः सर्वस्मात् प्रत्यगभिन्नपरमात्मनो निरतिशयप्रेमास्पदत्वं तत्र प्रतिपादितमित्यर्थः ॥ ५६॥
कोऽयमात्मा यः सर्वस्मात् प्रेयान् भवतीत्यत आह, श्रौत्येति ।
श्रौत्या विचारदृष्ट्यायं साक्ष्येवात्मा न चेतरः। |
श्रौत्या "अहं ब्रह्मास्मी" (बृ. १.४.१०) त्यादिश्रुतिभिः प्रतिपाद्यतया विचारदृष्ट्या आलोच्यमाने सति अयं साक्ष्येवात्मा । इतरो नेति फलति । किं स्वरूपेयं विचारणेत्यत आह, कोशानिति । अन्नमयादीन् मिथ्याभूतान् पंच