पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९२
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

यन् बोधयामास "न वा अरे! पत्युः कामाय पतिः प्रियो भवती"ति श्रुतिः (बृ.२.४.५.-४.५.६)। अरे इति प्रेमपुरस्सरं प्रियां प्रति संबोधयति । ओ मैत्रेयि पत्युः कामाय! संतोषणाय पतिः पत्न्याः प्रियो न भवति किंत्वात्मनस्तु कामायैवेति श्रुतेस्तात्पर्यम् ॥५॥

सर्वमात्मार्थं प्रियं भवति ।

 "इयमात्मा परानन्दः परप्रेमास्पदं यतः” (१.८.) इत्युक्तत्वात् पर प्रेमास्पदत्वहेतुनाऽत्मनः परानन्दतां सिसाधयिषुरादौ परप्रेमास्पदत्वहेतुप्रदर्श कस्य “आत्मनस्तु कामाय सर्व प्रियं भवती’ (बृ. ४.५. ६) ति श्रुत्युदाहृत- वाक्यस्य तात्पर्यमर्थतः पठति, पतिरिति ।

पतिर्जाया पुत्रवित्ते पशुब्राह्मणबाहुजाः
लोका देवा वेदभूते सर्वे चात्मार्थतः प्रियम् ॥ ६ ॥

 स्पष्टोऽर्थः ॥६॥

आत्मनस्तु कामायेति श्रुत्यर्थविचारणा ।

 तत्रादौ पतिपत्नीपुत्रदृष्टान्तानि चतुर्भिर्विशदयति, पत्याविति ।

पत्याविच्छा यदा पत्न्यास्तदा प्रीतिं करोति सा ।
क्षुदनुष्ठानरोगाद्वैस्तदा नेच्छति तत्पतिः ।। ७ ।।
न पत्युरर्थे सा प्रीतिः स्वार्थ एव करोति ताम् ।
पतिश्चात्मन एवार्थे न जायार्थे कदाचन ॥ ८ ॥
अन्योन्यप्रेरणेऽप्येवं स्वेच्छयैव प्रवर्तनम् ॥ ९ ॥
श्मश्रुकण्टकवेधेन बाले रुदति तत्पिता ।
चुम्बत्येव न सा प्रीतिर्बलार्थे स्वार्थ एव सा ॥ १० ॥

 स्पष्टोऽर्थः ॥५-१०॥