सामग्री पर जाएँ

पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

उपोद्घातः।

*

विदितचरमेवैतत्सर्वेषामिह खलु भारते वर्षे सर्वेजना धर्मार्थकाममोक्षाख्याश्चत्वारः पुरुषार्थाः; तेषु चार्थकामयोरैहिकसुखसाधनत्वम् धर्मस्यामुष्मिकसुखसाधनत्वम्, मोक्षस्य निरतिशयनिरवधिकसुखसाधनत्वम् तद्रूपत्वं चेति व्यवस्थाप्य ऐहिकसुखस्य “यस्तु चिरं जीवति स वर्षशतं जीवती"ति पतंजल्युक्तदिशा वर्षशतकालमात्रानुभूयमानत्वेन वर्षशतात्मककालस्य पुनर्जन्मपरंपरामभ्युपगच्छताम् नयेऽत्यल्पतया तत्कालानुभवयोग्यस्य बहुतरदुःखसंभिन्नस्य तस्य साधनभूतयोरर्थकामयोरधमकक्ष्यायां, आमुष्मिकस्य सुखस्य बहुजन्मपरंपरास्वनुभूयमानस्य दीर्घकालव्यापितयैहिकसुखादधिकतया दुःखसंभिन्नतया क्षयिष्णुतया च नित्यनिरवधिकाखंडानंदरूपान्मोक्षसुखादत्यल्पतया च तत्साधनभूतस्य धर्मस्य मध्यमकक्ष्यायाम्, नित्यनिरवधिकाखंडानंदरूपस्य लेशतोऽपि दुःखस्पर्शशून्यस्य सुखस्य साधनतया मोक्षस्योत्तमकक्ष्यायाम् च निवेशमभ्युपयन्तो मोक्षः प्रधानपुरुषार्थ इति प्रायो मन्यन्त इति ।

 एवं विधस्य प्रधानभूतस्य मोक्षस्य प्राप्तये विप्रतिपन्नाः पूर्वे आचार्यास्तत्वनिर्णयविषये विवदमानास्तत्तत्तत्त्वनिर्णयानुसारेण विभिन्नान्मार्गान्प्रादर्शयन् ।

 तेषु च चार्वाका:। प्रत्यक्षातिरिक्तं नास्ति प्रमाणम् । प्रत्यक्षगोचराणि पृथिव्यप्तेजोवायुरूपाणि चत्वार्येव भूतानि । तानि तत्त्वानि । नान्यत्किंचिदस्ति । तेषां भूतानां स्वभावबलेन संयोगविशेषात् स्थूलदेहो जायते । तत्र च किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते । चैतन्यविशिष्टदेह एवात्मा, तद्देहविलय एव मोक्षः । नास्ति पुनर्जन्म । नापि परलोकः । तदभावादेव पारलौकिकर्मफलदानानुरोधेनेश्वरोऽपि नांगीकरणीयः । पारलौकिककर्मप्रणाली च बुद्धिपौरुषहीनैर्डांभिकैस्स्वजीविकायै परिकल्पिता । ऐहिककर्मानुसारिफलदाता लोकसिद्धो राजैव परमेश्वर इति वदन्ति ।

 अन्ये च तदनुयायिन इंद्रियविनिर्मुक्त्ते मृतदेहे चैतन्यादर्शनादिंंद्रियैरेव सर्वज्ञानानामुदयदर्शनादिंद्रियाण्येव चैतन्यवन्त्यात्मभूतानि। सर्वमन्यत्पूर्ववदित्याहुः।

 बौद्धास्तु। "इंद्रियाणां चैतन्ये इंद्रियैरनुभूयमानस्येंद्रियोपघाते स्मरणाॊ