एवं पूर्ववादिप्रतिपादितप्रलये दृष्टान्ततायास्सुषुप्तेरद्वितीयत्वम् स्वप्रभत्वं च संपाद्य तत्र सुखमपि साधयति, स्तामिति ।
स्तामद्वैतस्वप्रभत्वे वद सुप्तौ सुखं कथम् । |
सुषुप्तावद्वैतस्वप्रभत्वे स्ताम् युक्तया सिध्येतां नामेत्यर्थः । सुप्तौ सुखमानन्दः कथं भवतीति वद। उत्तरमाह, शृण्विति तदा सुषुप्तौ सुखप्रतिद्वंदि दुःखं नास्ति । ततस्तदभावे ते सुखमेव शिष्यते ॥ ३३ ॥
सुषुप्तौ दुःखाभावं श्रुत्यनुभवाभ्यां दर्शयति, अन्ध इति ।
अन्धस्सन्नप्यनन्धस्याद्विद्धोऽविद्धोऽथ रोग्यपि ।। |
जाग्रत्यन्धस्सन्नपि सुषुपौ अनन्धः स्यात् तथैव युद्धे विद्धोऽपि शत्राहतोऽपि सुषुप्तावविद्ध एव । शस्त्रहतिबाधां नानुभवति । अथ रोग्यप्यरोग्येवेति “तत्रांधस्सन्ननंधो भवति विद्धस्सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवती”ति (छां.८.४.२)श्रुतिः प्राह । तच्चैतदर्थस्य याथार्थ्यं सर्वे जना विदुः । अनुभवेन जानन्तीत्यर्थः । अन्धत्वादीनां देहाभिमानविषयत्वाज्जाग्रत्यनुभूयमानानि तानि सुषुप्तावपगतदेहाभिमानत्वान्ननुभूयन्त इति भावः ॥ ३४ ॥
ननु सुषुप्तौ दुःस्वभावात्सुखमेवानुमीयत इत्ययुक्तं शिलादिषु व्यभिचारादिति शंकामुत्थापयति, नेति ।
न दुःखाभावमात्रेण सुखं लोष्ठशिलदिषु । |
दुःखाभावमात्रेण लोष्ठशिलादिषु मृत्पिंडपाषाणादिषु जडपदार्थेषु सुखं न विद्यते । तत्र कारणमाह, द्वयेति । तत्र द्वयाभावस्य सुखदुःखयोरभावस्य दृष्टत्वादिति चेच्छंकां परिहरति विषममिति । तव वचो विषमम् । अननुकूलोऽयं दृष्टान्त इत्यर्थः॥ । ३५ ॥