इत्युक्तस्सुखमेवास्य पारमित्यभ्यधादृषिः ॥ २० ॥ |
विद्वान् ब्रह्मज्ञानिन् सोऽहं सर्ववेदवेदाङ्गपारगोडहं नात्मविदिति प्रशोचामि । अत्रात्मज्ञानाभावविषये शोकपारं यश्शोकस्तदभावप्रयुक्तस्तस्य पारं तीरं मां नय । तं मां भगवान् शोकस्य पारं तारयत्वि” ति (छां. ७. १. ३) नारदेनोक्तः सन कुमारऋषिः ऋक्षति ज्ञानेन संसारं गच्छतीति तथाभूतः । “यो वै भूमा तत्सुखमेवे” (छां. ७. २३. १.) त्यस्यापारशोकस्य पारमित्यभ्यधादुपदिदेश ।२०।
न हि तदन्येष्वल्पेषु स्रगादिवैषयिकेषु बहुष्वपि सुखाभासमात्रेषु वास्तवं सुखमिति बोधनाय “ यदल्पं तन्मर्त्य” “मिति (छ. ७,२४१.) श्रुत्यर्थमाह, सुखमिति ।
सुखं वैषयिकं शोकसहस्त्रेणावृतत्वतः। |
अल्पे सातिशये। सुगममन्यत् ॥ २१॥
सुखस्वरूपवस्वप्रकाशत्वमानन्दस्य लक्षणम् ।
ननु चैते सुखं मास्तु । अद्वैतेऽपि तदभाव एवेत्याशंक्याह,नन्विति ।
ननु द्वैते सुखं माभूद्वैतेऽप्यस्ति नो सुखम् । |
नन्विति पूर्वपक्षे प्रवेशयति । द्वैतेल्पे सुखं माभूत् । तथैवाद्वैतेऽपि सुखं नो अस्ति । तत्र कारणमाह अस्तीति । अस्ति चेत् विषयसुखादिवदुप लभ्येत । तद्वदुपलब्धिर्नास्तीत्यभिप्रायः । तद्वदुपलभ्यमाने सति त्रिपुटीसंभवा- दद्वैतमेव न घटत इत्याह, तथेति । यद्युपलभ्येत, तथा उपलब्धूपलब्ध्युपलभ्य रूपा त्रिपुटी भवेत् । त्रिपुटीद्वैतवर्जनस्याद्वैतस्य हानिर्भवेदित्यर्थः ॥२२॥
अद्वैतं नाम सुखस्वरूपं न तु सुखसंपाकमिति समाधत्ते, मास्त्विति ।
मास्त्वदैते सुखं किन्तु सुखमद्वैतमेव हि । |