पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४४९
कल्याणपीयूषव्याख्यासमेता

तेषामुभयत्र निर्दिष्टानां परस्परमुक्तानंदत्रयान्तर्भूतत्वात् । तथाहि -तत्रोतरत्र प्रतिबिंबित इत्युक्त आनन्दोऽन्तःकरणप्रतिबिंबरूपतयो विषयानन्द एव भवति । तत्र ब्राह्मणवसिष्ठन्यायेन प्राशस्त्यमपेक्ष्य विद्यानन्दस्य पृथगुक्तत्वेऽपि धीवृत्तिरूपतया विषयानंदत्त्वेनोभावप्यानंदावुत्तरत्रोक्तप्रतिबिंबानंदेन सन्निहितौ भवतः। वासनानन्दस्तु ब्रह्मानन्दरूप एव । उत्तरत्र ब्रह्मानंदात्पृथगुक्तिस्तु जगत्कारणत्वोपाधिमादाय किंचिद्भदं परिकल्प्य प्रवृत्ता। भेदेन विभागकरणन्तु तत्र तत्र विवेचनीयं विषयानुसारेण। अत्र तु ब्रह्मनन्दशब्देन ब्रह्मानन्दविशेष एव ग्राह्यः, न तु सामान्यरूपः। सामान्यरूपग्रहणे सामान्यविशेषयोः प्रकारभेदत्वानुपपत्या त्रैविध्योक्तेरसंभवात् । नन्वेवं विद्यानन्दस्यापि धीवृत्तिरूपत्वेन विषयानन्देऽन्तर्भावाद्ब्रह्मानन्दो विषयानन्दश्चेति द्वैविध्यमेव वक्तुं युक्तं, न त्रैविध्यमिति चेन्न । विद्यानन्दस्य विषयानन्दरूपत्वेऽपि ब्रह्मानन्दसन्निकृष्टत्वादभ्यर्हितत्वेन ब्राह्मणवसिष्ठन्यायेन पृथगुक्तेस्सोपपादत्वात् । एवं तत्र तत्र भिन्नशब्देनोपात्ता आनन्दा उक्तेष्वेवानन्देष्वन्तर्भवन्तीत्युक्तं त्रैविध्यं सुस्थमेवेति बोध्यम् । ग्रहणसौलभ्यायेदं कोष्टमबलोकनीयम् ॥

ब्रह्मण आनन्दस्वरूपत्वकथनम् ।

 भृगुवल्लयर्थपर्यालोचनया तत्स्वरूपनिरूपणं शक्यत इत्याशयेन तदर्थं संक्षिपति, भृगुरिति ।

भृगुः पुत्रः पितुः श्रुत्वा वरुणाद्ब्रह्मलक्षणम् ।
अन्नप्राणमनोबुद्धीस्त्यक्त्वाऽऽनन्दं विजिज्ञिवान् ॥ १२ ॥

57