"भीषास्माद्वातः पवते भीषोदेति सूर्य” इति (तै.२.९. कठ.२.६) श्रुत्यर्थपठनेनैतस्मिन्नद्वितीये ब्रह्मण्यान्तरं कुर्वतां वाय्वादीनां भयकारणं प्रदर्शयति, वायुरिति ।
वायुस्सूर्यो वह्निरिंद्रो मृत्युर्जन्मान्तरेऽन्तरम् । |
वायुस्सूर्यो वह्निरिंद्रो मृत्युश्च पूर्वजन्मकर्मानुरूपाणि देवताद्युत्कृष्टशरीराणि लब्ध्वापि जन्मान्तरे धर्मे विधिविहितं कर्म विजानन्तोऽपि विशेषेण ज्ञात्वाऽऽचरन्तोऽपि प्रत्यग्ब्रह्मणोरन्तरं भेदं कृत्वा विभाव्यास्माज्जगन्नियमनकर्तुर्बह्मणो भीत्याचरन्ति तदाज्ञानुवर्तिनः सन्तो भवन्ति होति प्रसिद्धार्थकः ॥४॥
वाक्यान्तरोदाहरणेन “ तरति शोकमात्मवदि” (छां.७.१.३.) त्यादिषु ब्रह्मानन्दज्ञानस्य शोकनिवृत्तिकारणत्वं स्पष्टयति, आनन्दमिति ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्च न । |
ब्रह्मणः स्वरूपभूतमानन्दं राहोश्शिर इतिवदौपचारिकमात्रमेव षष्ठ्यर्थः । विद्वान्योऽपरोक्षतया साक्षात्करोति स कुतश्चन कस्मादप्यैहिकामुष्मिकाद्धेतोः न बिभेति । एतं विद्वांसं कर्माग्निसंभृता कर्मैवाग्निस्संतापकारणं तेन संभूता संपादिता एषा "किमहं साधु नाकरवं किमहं पापमकरव" (तै.२-९) मित्या- कारककरणाकरणजन्या चिन्ताऽनुतापः न तपेन्न तापयति । तदन्योऽविद्वांस्तच्चिन्तया सन्तप्यत इत्येवशब्दार्थः ॥ ५ ॥
"स य एवं विद्वानेते आत्मानं स्पृणुते, उभे ह्येवैष एते आत्मानग्ंस्पृणुते,” (तै.२.९) इतिश्रौतवाक्योदाहरणेन “एतमेव तपेन्नैषा चिन्ते"त्यत्र हेतुं प्रदर्शयति, एवमिति ।
एवं विद्वान् कर्मणी द्वे हित्वाऽऽत्मानं स्मरेत्सदा । |