नन्वेवं सर्वग्रहत्यागाशक्तानां मन्दधियां का गतिरित्याशंक्याह, यदीति ।
यदि सर्वग्रहत्यागोऽशक्यस्तर्हि धियं व्रज । |
यदि सर्वगहत्यागोऽशक्यस्तर्हि धियं शरणं व्रज । ततः किं स्यात् ? तद्धीनस्तस्या बुद्धेरधीन एष परमात्मा अन्तर्बहिर्वाऽनुभूयतां, बुद्ध्या यदाऽऽन्तरं बाह्यम् च द्वैतं कल्प्यते तस्य साक्षितया तदधीनः परमात्मा तथैवानुभूयताम्। बुद्धिपरिकल्पितनामरूपादीन् , तदवभासकं चिदाभासंं च मिथ्यात्वेन निश्चित्य तेभ्यस्साक्षिणं विविच्य सर्वग्रहाशक्तौ मंदधिया तद्यथार्थस्वरूपमनुभूयता मित्यर्थः ॥२६॥
इति
श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित
जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तेवासिनात्रि
गोत्रसमुद्भूतेन लिङ्गनसोमयाजिना विरचितेयं नाटकदीप-
प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥
इति नाटकदीपप्रकरणम्।