पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८
[तत्त्वविवेक
पञ्चदशी

उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः ।
पञ्चकोशविवेकेन लभन्ते निर्वृतिं पराम् ॥ ३२॥

 सत्कर्मपरिपाकान् पूर्वोपार्जितसुकृतविशेषस्य परिपाकात्सम्यक् फलोद्भमात् करुणानिधिना करुणा स्वयंसहायासमर्थेषु कृपणेषु दया, तस्या निधिराकरः तेनात्यन्तकृपालुना पुरुषेणोद्धृताः प्रवाहाद्बहिरुन्नीताः कीटाः तीरतरुच्छायां प्राप्य यथासुखं विश्राम्यन्ति ॥ ३१ ॥

 एवं पराग्दर्शिनो देवादयः पूर्वसुकृतफलोद्गमे आचार्यादुपदेशं श्रवणरूपमवाप्य मननादिना तत्त्वदर्शिनस्संतोऽन्नमयादिपञ्चकोशविवेकेन प्रत्यगात्मानं तेभ्यो विविच्य परां निर्वृतिं नैष्कर्म्यं निरतिशयसुखं लभन्ते । जगत्सृष्टिस्थिति- लयानां यत्कारणं तद्बह्योत्याचार्येणोपदिष्टो भृगुस्खयं पुन:पुनस्तपस्तप्त्वान्नमयादि- पञ्चकोशविवेचनेनान्ते “ आनन्दो ब्रह्मेति" यथा व्यजानात्तथेति भावः ॥ ३२ ॥

पञ्चकोशविवरणम् ।

 विवेच्यान् पञ्चकोशान् विवृणोति, अन्नमिति ।

अन्नं प्राणो मनो बुद्धिरानन्दश्चेति पञ्च ते।।
कोशास्तैरावृतस्स्वात्मा विस्मृत्य संम्सृतिं व्रजेत् ॥३३॥

 अन्नं प्राणो मनो बुद्धिरानन्दश्चेति ते कोशाः पञ्च । ‘नामैकदेशे नामग्रहण'मिति न्यायेन अन्नादिशब्दैरन्नमयादिकोशाः प्रकीर्तिताः । बुद्धिर्नाम विज्ञानं । तैः पञ्चकोशैरावृतः स्वात्मा निजहृत्पुण्डरीक एव स्वस्वरूपेण साक्षात्कारयोग्य आत्मा। विस्मृत्या स्वस्वरूपविस्मरणेन, संस्सृतिं संसारं व्रजेत् गच्छेत्॥ ३३ ॥

पञ्चकोशानां स्वरूपविवरणे आदावन्नमयप्राणमयकोशावाह, स्यादिति।

स्यात्पञ्चीकृतभूतोत्थो देहस्स्थूलोऽन्नसंज्ञिकः ।
लिङ्गं तु राजसैः प्राणै: प्राणः कर्मेन्द्रियैस्सह ॥ ३४ ॥

 पञ्चीकृतभूतोत्थः पञ्चीकृतभूतेभ्य उत्पन्नः स्थूलो देहोऽन्नसंज्ञिकः अन्नमय- कोश इत्युच्यते । प्राणस्तु प्राणमयकोशस्तु लिङ्गे लिङ्गशरीरे विद्यमानैः राजसैः