मन्दबुद्धीनामुपासना विधीयते ।
तत्त्वसाक्षात्कारतद्विचारयोः प्रतिबंधप्रकारमभिधाय विचाराक्षममत्यनामीप्सितार्थसिद्धये कर्तव्यमुपदिशति, अत्यंतेति ।
अत्यंतबुद्धिमान्द्याद्वा सामग्र्या वाप्यसंभवात् । |
सामग्रयाः ज्ञानस्य साधनीभूतगुरुशास्त्रादेः । स्पष्टमन्यत् ॥ ५४ ॥
निर्गुणब्रह्मोपासनस्य साध्यत्वविचारः ।
ननु कथं निर्गुणब्रह्मण उपास्योपासकादिद्वैतोपेतोपासनाविषयत्वं सिध्य तीत्याशंक्य उपासनायाः प्रत्ययावृत्तिरूपत्वात्सगुणब्रह्मण इव निर्गुणब्रह्मणोऽपि सिध्यतीत्याह,निर्गुणेति ।
निर्गुणब्रह्मतत्वस्य नद्युपास्तेरसंभवः । । |
यथा सगुणब्रह्मणि तद्विषयकोपासनायां,तथाऽत्रापि निर्गुणब्रह्मोपासनेऽपि प्रत्ययावृत्तिसंभवात् वृत्त्यंतरानवच्छिन्नबुद्धिवृत्तीनामावृत्तेः संभवात् निर्गुणब्रह्मतत्वोपास्तेर्नासंभवः। सगुणनिर्गुणोपासनयोर्बुद्धिसांतत्यस्य साम्यादिति भावः
अत्रेदमुच्यते किंचिदुपासनाविषये । तत्र सोपाधिनिरुपाधित्वभेदतो ब्रह्म द्विधाऽभिधीयते । प्रथममविद्याविषयं, द्वितीयं तु विद्याविषयम् । "एकमपिब्रह्मापेक्षितोपाधिसंबंधं निरस्तोपाधिसंबंधं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यते” । परमात्माभिन्नप्रत्यगात्मसाक्षात्कारो हि मोक्षः । "अहं ब्रह्मास्मी” (बृ.१.४.१०.) त्याकारकापरोक्षानुभूतिस्साक्षात्कारः।स च पंचकोशविवेचनापूर्वक:, अर्थादपास्तं तस्य चिदाभासावभासितस्वरूपं फलव्याप्यत्वम् । चिरंतनाभ्यस्तदेहात्मत्वविभ्रान्तस्य पुनपुनर्विचारेऽपि प्रतिबंधतः सामग्र्यभावाद्वाऽधीतवेदवेदार्थानामप्यत्यंतव्याकुलचित्तानां मंदधियामात्मत्वेन ब्रह्मावगन्तुं न शक्यते। तेषामनिशं ब्रह्मोपासना विधीयते। लौकिकव्यवहारे इवोपासनायामपि ज्ञानिनस्तु मिथ्यात्वबुद्धिरेव |