पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३८९
कल्याणपीयूषव्याख्यासमेता

त्वात् तत्त्वनिश्चये विचारचतुरेतरस्य बुद्धिः कुंठीभवति । तदा श्रवणं कुर्यात् । “ततु समन्वयादि"ति शास्त्रोक्तरीत्याशेषवेदान्ताना । “महं ब्रह्मास्मी"ति वाक्यार्थे तापर्यमिति धीः श्रवणं भवेत् । केषांचिद्दुष्कर्मातिशयाच्छूवणमपि न लभ्यते । श्रुतस्यार्थस्याखंडैकरसस्याद्वितीयब्रह्मरूपस्यालौकिकत्वेनासंभावितत्वं शुष्कतार्किकत्वेन श्रुत्यर्थस्यान्यथोहनं कुतर्कः। तन्निवारणाय श्रुत्यनुमतं तर्कमनुसन्धाय मननं कुर्यात् । तन्मार्गश्च सूत्रभाष्ये द्वितीयाध्याये प्रदर्शितः । आमनः कर्तृत्वादिधर्मसाहित्यज्ञानं विपरीतभावना । तत्र युक्तिविरहितोऽभिनिवेशो दुराग्रहः । स च निदिध्यासेन क्षीयते । निदिध्यासश्चित्तैकाग्र्यलभ्यः । स चोपासनासाध्यः । गुरुशास्त्रादिनावगतपरोक्षज्ञानेन श्रद्धालुनोपासना कर्तव्या ।

 आगामिप्रतिबन्ध आरब्धशेषरूपो वामदेवादिष्विव जन्मान्तरे कारणं भवति । स च भोगोपक्षयिष्णुः । प्रारब्धस्य प्राबल्यानुसारतो वामदेवस्येवैकस्मिन् जन्मनि भरतस्येव त्रिजन्मभिरन्येषामनेकजन्मभिर्वा क्षीयते ।

 वैराग्योपरमौ बोधस्योपकारकौ। अत्यन्तभोगजिहसारूपो वैराग्यो ब्रह्म- लोकस्यापि तृणीकारपर्यवसानकः । स च विषयानित्यत्वज्ञानेन जायते । उपरम- श्चित्तवृत्तिनिरोधो यमादिना संजायते । वैराग्यबोधोपरमाणामुपासनस्य वा प्रागेव । साधनचतुष्टयसंपत्तिरवश्यं संपाद्य।

 एवं जीवन्मुक्तिनिमित्तस्य विचारपरिपाकस्यानेकजन्मसाध्यत्वं अशेषभोगेच्छाविदलनाभावे विचारभ्रम्शश्च बहुजन्मनि सति प्रतिबन्धक्षये मोक्षश्च प्रकीर्तितः। यद्यपि विचारपरिपाकात् प्रागेवायुषोऽल्पत्वान्मरणकाले चेन्द्रियाणां चांचल्यादप्राप्तसाक्षात्कारस्य म्रियमाणस्य मध्येकालं विच्छिन्नयोगस्य न मोक्षावाप्तिः । सर्वकर्मसन्यासत्वान्न तस्य कर्मफलभूतपितृलोकानुभवः । अनभ्यस्तोपासनत्वान्न देवलोकयानम् । न चोपासनासहितकर्मफलं वा तस्य वक्तव्यम् । यद्यप्येतादृग्योगभ्रष्टो न विनश्यति । ‘नैवेह नामुत्र विनाशस्तस्य विद्यत” इति वाक्यात् पूर्वस्माद्धीनजन्म न तस्य विद्यते । कपूयचरणजन्यं कर्मान्तरमधमजन्मजनकं योगभ्रष्टस्य योगबलात्प्रतिबध्यते। “न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छती” त्युपक्रम्य भगवता योगभ्रष्टस्य साभिलाषत्वनिरभिलाषत्वभेदेन श्रीमतामधवा योगिनामेव